________________
१०४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
आभ्यां स्त्रियां 'डीर्वा स्यात्, ङीयोगे चाऽऽनन्तः' । आर्याणी, आर्या, क्षत्रियाणी, क्षत्रिया ॥६६॥
यो डायन च वा ।२।४।६७॥ यजन्तात् स्त्रियां 'डीः स्यात्, ङीयोगे च डायनन्तो वा' स्यात् । गार्गी, गाायणी ॥६७॥
लोहितादिशकलान्तात् ।२।४।६८॥ लोहितादेः शकलान्तात् यजन्तात् स्त्रियां 'डीः स्यात्, तद्योंगे च डायनन्तः' । लौहित्यायनी, शाकल्यायनी ॥६८॥
षा-ऽवटाद्वा ।२१४६९॥ षान्ताद् अवटाच्च यजन्तात् स्त्रियां 'डीर्वा स्यात्, ङीयोगे च डायनन्तः' । पौतिमाष्यायणी, पौतिमाष्या; आवट्यायनी, आवट्या ॥६९॥
कौरव्य-माण्डूका-ऽऽसुरेः ।२।४७०॥ एभ्यः स्त्रियां 'डीः स्यात्, ङीयोगे च डायनन्तः' । कौरव्यायणी, माण्डूकायनी, आसुरायणी ॥७०॥
इञ इतः ।२।४७१॥ इजन्ताद् इदन्तात् स्त्रियां 'डीः' स्यात् । सौतङ्गमी । इत इति किम् ? कारीषगन्ध्या ॥७॥
नुजतिः ।२।४७२॥ मनुष्यजातिवाचिन इदन्तात् स्त्रियां 'डीः' स्यात् । कुन्ती, दाक्षी । इत इत्येवदरत् । नुरिति किम् ? तित्तिरिः । जातेरिति किम् ? निष्कौशाम्बिः ॥७२॥
उतोऽप्राणिनश्वाऽयु-रज्ज्वादिभ्य ऊ२।४७३॥ उदन्तानृजातेरप्राणिजातिवाचिनश्च स्त्रियाम् "ऊङ् स्यात्, न तु वन्ताद्