________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१०१ दन्तप्रतिपन्ना ॥४६॥
अनाछादजात्यादेर्नवा ।२।४।४७॥ आच्छादवर्जा या जातिस्तदवयवात् कृतादिवर्जात् क्तान्ताद् बहुव्रीहेः स्त्रियां 'डी' स्यात् । शाङ्गरजग्धी, शाहरजग्धा । आच्छादवर्जनं किम् ? वस्त्रच्छन्ना । जात्यादेरिति किम् ? मासयाता । अकृताधन्तादित्येव- कुण्डकृता ॥४७॥
पत्युनः ।२।४॥४८॥ पत्यन्ताद् बहुव्रीहे. स्त्रियां 'डीर्वा स्यात्, तद्योगेऽन्तस्य न च' । दृढपानी, दृढपतिः । मुख्यादित्येव- बहुस्थूलपतिः पुरी ॥४८॥
सादेः ।२।४॥४९॥ सपूर्वपदात् पत्यन्तात् स्त्रियां 'डीर्वा स्यात्, तद्योगेऽन्तस्य न च' । ग्रामस्य पतिः ग्रामपत्नी ग्रामपतिः । सादेरिति किम् ? पतिरियम्, ग्रामस्य पतिरियम् ॥४९॥
सपल्यादौ ।२।४॥५०॥ [॥५०॥ एषु पतिशब्दात् स्त्रियां 'डीः' स्यात्, अन्तस्य न च । सपत्नी, एकपली ।
ऊढायाम ।२।४॥५१॥ पत्युः परिणीतायां स्त्रियां 'डीः स्यात्, न चाऽन्तस्य' । पली, वृषलस्य पत्नी ॥५१॥
पाणिगृहीतीति ।२।४५२॥ पाणिगृहीतीतिप्रकाराः शब्दा ऊढायां स्त्रियां 'ड्यन्ता निपात्यन्ते' । पाणिगृहीती, करगृहीती । ऊटायामित्येव - पाणिगृहीताऽन्या ॥५२॥
पतिवन्यन्तर्वल्यौ भार्या-गर्भिण्योः ।२।४५३॥ भार्या- अविधवा स्त्री, तस्यां गर्मिण्यां च यथासंख्यम् ‘एतौ निपात्येते' ।