________________
१०२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पतिवली, अन्तर्वली ॥५३॥
जातेरयान्त-नित्यस्त्री-शूद्रात् ।२।४।५४॥ जातिवाचिनोऽदन्तात् स्त्रियां 'डीः' स्यात्, न तु यान्त-नित्यत्री-शूद्रात् । कुक्कुटी, वृषली, नाडायनी, कठी । जातेरिति किम् ? मुण्डा । यान्तवर्जनं किम् ? क्षत्रिया । नित्यस्त्रीवर्जनमिति किम् ? खट्वा । शूद्रवर्जनं किम् ? शूद्रा । आदित्येव - आखुः ॥५४॥
पाक-कर्ण-पर्णवालान्तात् ।२।४५५॥ पाकाद्यन्ताया जातेः स्त्रियां 'डीः' स्यात् । ओदनपाकी, आखुकर्णी, मुद्गपर्णी, गोवाली । जातेरित्येव- बहुपाका यवागूः ॥५५॥
असत-काण्ड-प्रान्त-शतकाचः पुष्पात् ।२।४५६॥ सदादिवर्जेभ्यः परो यः पुष्पशब्दस्तदन्ताज्जातेः स्त्रियां 'डीः' स्यात् । शपुष्पी। सदादिवर्जनं किम् ? सत्पुष्पा, काण्डपुष्पा, प्रान्तपुष्पा, शतपुष्पा, एकपुष्पा, प्राक्पुष्पा ॥५६॥
असम्-भस्रा-ऽजिनक-शण-पिण्डात् फलात् ।२।४५७॥ समादिवर्जेम्यो यः फलशब्दस्तदन्ताज्जातेः स्त्रियां 'डीः' स्यात् । दासीफली । समादिप्रतिषेधः किम् ? संफला, भस्त्राफला, अजिनफला, एकफला, शणफला, पिण्डफला ओषधिः ॥५७॥
अनजो मूलात् ।२।४५८॥ नवर्जात् परो यो मूलशब्दस्तदन्ताज्जातेः स्त्रियां 'डीः' स्यात् । दर्भमूली, शीर्षमूली । अनञ इति किम् ? अमूला ॥५८॥
धवाद् योगादपालकान्तात् ।।४५९॥ धवो-भर्ता, तद्वाचिनः सम्बन्धात् स्त्रीवृत्तेः पालकान्तशब्दवर्जात् 'डीः' स्यात् ।