________________
१००
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
नख-मुखादनाम्नि ॥२॥४॥४०॥ सहादिवर्जपूर्वपदाभ्यां स्वाङ्गाभ्यामाभ्याम् असंज्ञायामेव स्त्रियां डीर्वा' स्यात् । शूर्पनखी, शूर्पनखा; चन्द्रमुखी, चन्द्रमुखा । अनाम्नीति किम् ? शुर्पणखा, कालमुखा ॥४०॥
पुच्छात् ।२।४॥४१॥ सहादिवर्जपूर्वपदात् स्वाङ्गात् पुच्छात् स्त्रियां 'डी' स्यात् । दीर्घपुच्छी दीर्घपुच्छा ॥४१॥
कबर-मणि-विष-शरादेः ।२।४॥४२॥ एतत्पूर्वपदात् पुच्छात् स्त्रियां 'डीनित्यम्' स्यात् । कबरपुच्छी, मणिपुच्छी, विषपुच्छी, शरपुच्छी ॥४२॥
पक्षाचोपमानाऽऽदेः ।२।४।४३॥ उपमानपूर्वात् पक्षात् पुच्छाच स्त्रियां 'डीः' स्यात् । उलूकपक्षी शाला, उलूकपुच्छी सेना ॥४३॥
क्रीतात करणादेः ।२।४।४४॥ करणादेः क्रीतान्ताददन्तात् स्त्रियां 'डीः' स्यात् । अश्वनीति, मनसाक्रीति । आदेरिति किम् ? अश्वेन क्रीता ॥४४॥
तादल्पे ।२।४॥४५॥ क्तान्तात् करणादेरल्पेऽर्थे स्त्रियां 'डीः' स्यात् । अभ्रविलिप्ती द्यौः, अल्पाप्रेत्यर्थः । अल्प इति किम् ? चन्दनानुलिप्ता स्त्री ॥४५॥
स्वाङ्गादेरकृत-मित-जात-प्रतिपत्राद् बहुव्रीहेः ।२।४।४६॥ स्वाङ्गादेः कृतादिवर्जात् क्तान्ताद् बहुव्रीहेः स्त्रियां 'डीः' स्यात् । शङ्खभित्री, ऊरुमिनी । कृतादिवर्जनं किम् ? दन्तकृता, दन्तमिता, दन्तजाता,