________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
स्वरादुतो गुणादखरोः ।२।४॥३५॥ स्वरात् परो य उत् तदन्ताद् गुणवचनात् खरुवर्जात् स्त्रियां 'डीर्वा स्यात् । पट्वी, पटुः । विभ्वी, विभुः । स्वरादिति किम् ? पाण्डुभूमिः । गुणादिति किम् ? आखुः स्त्री । अखरोरिति ? खरुरियम् ॥३५॥ _श्येतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च ।२।४॥३६॥ एभ्यो वर्णवाचिभ्यः स्त्रियां 'डीर्वा स्यात् तद्योगे तो न च । श्येनी, श्येता; एनी, एता; हरिणी, हरिता; भरणी, भरता; रोहिणी, रोहिता । वर्णादिति किम् ? श्येता, एता ॥३६॥
क्नः पलिता-ऽसितात् ।२।४॥३७॥ त इति चेति चा-ऽनुवर्तते, आभ्यां स्त्रियां 'डीर्वा स्यात्, तद्योगे तः क्नः' । पलिक्नी, पलिता; असिक्नी, असिता ॥३७॥
॥२४॥३८॥ असह-नञ्-विद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः सहादिवर्जपूर्वपदं यत् स्वाङ्गं तदन्तात् क्रोडादिवर्जाद् अदन्तात् स्त्रियां 'डी' स्यात् । पीनस्तनी, पीनस्तना; अतिकेशी, अतिकेशा माला । सहादिवर्जनं किम् ? सहकेशा, अकेशा, विद्यमानकेशा । क्रोडादिवर्जनं किम् ? कल्याणक्रोडा, पीनगुदा, दीर्घवाला । स्वाङ्गादिति किम् ? बहुशोफा, बहुज्ञाना, बहुयवा ॥३८॥
(२।४॥३९॥ नासिकोदरोष्ठ-जपा-दन्त-कर्ण-शृङ्गा-जगात्र-कण्ठात सहादिवर्जपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः स्त्रियां 'डी' स्यात् । तुनासिकी, तुङ्गनासिका; कृशोदरी, कृशोदरा; बिम्बोष्ठी, बिम्बोष्ठा; दीर्घजङ्घी, दीर्घजया; समदन्ती, समदन्ता; चारुकर्णी, चारुकर्णा; तीक्ष्णशृगी, तीक्ष्णशृगा; मृद्वङ्गी, मृद्वा सुगात्री, सुगात्रा; सुकण्ठी, सुकण्ठा । पूर्वेण सिद्धे नियमार्थमिदम्, तेन बहुस्वरसंयोगोपान्त्येभ्योऽन्येभ्यो मा भूत्-सुललाटा, सुपार्खा ॥३९॥