________________
श्रीसिदहेमचन्द्रशब्दानुशासनम्
केवल-मामक-भागधेय-पापा-ऽपर-समाना-ऽऽर्यकृत-सुम
ङ्गल-भेषजात् ।२।४।२९॥ एभ्यो नाम्नि स्त्रियां 'डीः' स्यात् । केवली ज्योतिः, मामकी, भागधेयी, पापी, अपरी, समानी, आर्यकृती, सुमङ्गली, भेषजी । नाम्नीत्येव-केवला ॥२९॥
भाज-गोण-नाग-स्थल-कुण्ड-काल-कुश-कामुक-कट-कबरात् पक्वा-ऽऽवपन-स्थूला-ऽकृत्रिमा-ऽमत्र-कृष्णा-ऽयसी
रिंसु-श्रोणि-केशपाशे ।२।४॥३०॥ एभ्यो यथासंख्यं पक्वादिष्वर्थेषु स्त्रियां 'नाम्नि डीः' स्यात् । भाजी पक्वा चेत्, भाजाऽन्या । गोणी आवपनम्, गोणाऽन्या । नागी स्थूला, नागाऽन्या । स्थली अकृत्रिमा, स्थलाऽन्या । कुण्डी अमत्रम्, कुण्डाऽन्या । काली कृष्णा, कालाऽन्या । कुशी आयसी, कुशाऽन्या । कामुकी रिरंसुः, कामुकाऽन्या । कटी श्रोणिः, कटाऽन्या । कबरी केशपाशः, कबराऽन्या ॥३०॥
नवा शोणादेः ।२।४॥३१॥ शोणादेः स्त्रियां 'डी' स्यात् । शोणी, शोणा; चण्डी, चण्डा ॥३१॥
इतोऽक्त्य र्थात् ।२।४॥३२॥ क्त्यर्थप्रत्ययान्तवर्जाद् इदन्तात् स्त्रियां 'डीर्वा स्यात् । भूमी, भूमिः; धूली, धूलिः । अक्त्यर्यादिति किम् ? कृतिः, अकरणिः, हानिः ॥३२॥
पद्धतेः ।२।४॥३३॥ अस्मात् स्त्रियां 'डी' स्यात् । पद्धती, पद्धतिः ॥३३॥
शक्तेः शस्ने २४३४॥ अस्माच्छो स्त्रियां 'डी' स्यात् । शक्ती, शक्तिः । शस्त्र इति किम् ? शक्तिः- सामर्थ्यम् ॥३४॥