________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
९७ समाहारद्विगोरदन्तात् स्त्रियां 'डीः' स्यात् । पञ्चमूली, दशराजी ॥२२॥
परिमाणात् तद्धितलुक्यबिस्ताऽऽचितकम्बल्यात् ।।४।२३॥ परितः सर्वतो मानं परिमाणं रूदेः प्रस्थादि, बिस्तादिवर्जपरिमाणान्ताद् द्विगोरदन्तात् तद्धितलुकि स्त्रियां 'डीः' स्यात् । द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी । परिमाणादिति किम् ? पञ्चभिरश्वैः क्रीता पञ्चाश्वा । तद्धितलुकीति किम् ? द्विपण्या । बिस्तादिवर्जनं किम् ? द्विबिस्ता, द्व्याचिता, द्विकम्बल्या ॥२३॥
काण्डात् प्रमाणादक्षेत्रे ।२।४॥२४॥ प्रमाणवाचिकाण्डान्तादक्षेत्रविषयाद् द्विगोस्तद्धितलुकि स्त्रियां 'डीः' स्यात् । आयामः प्रमाणम्, द्वे काण्डे प्रमाणमस्याः द्विकाण्डी रज्जुः । प्रमाणादिति किम् ? द्विकाण्डा शाटी । अक्षेत्र इति किम् ? द्विकाण्डा क्षेत्रभक्तिः ॥२४॥
पुरुषाद् वा ।२।४।२५॥ प्रमाणवाचिपुरुषान्ताद् द्विगोस्तद्धितलुकि स्त्रियां 'डीर्वा' स्यात् । द्विपुरुषी द्विपुरुषा परिखा । तद्धितलुकीत्येव- पञ्च पुरुषाः समाहृताः पञ्चपुरुषी ॥२५॥
रेवत-रोहिणाद् भे ।२।४।२६॥ आभ्यां नक्षत्रवृत्तिभ्यां स्त्रियां 'डीः' स्यात् । रेवती, रोहिणी, रेवत्यां जाता रेवती । म इति किम् ? रेवता ॥२६॥
नीलात् प्राण्योषध्योः ॥२॥४॥२७॥ प्राणिन्यौषधौ च नीलात् स्त्रियां 'डीः' स्यात् । नीली गौः, नीली औषधिः, नीलाऽन्या ॥२७॥
ताच नाम्नि वा ॥२॥४॥२८॥ नीलात् क्तान्ताच स्त्रियां संज्ञायां 'डीर्वा' स्यात् । नीली, नीला; प्रवृद्धविलूनी, प्रवृद्धविलूना ॥२८॥