________________
९४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
मूलराजासिधारायां निमग्ना ये महीभुजः । उन्मज्जन्तो विलोक्यन्ते स्वर्गङ्गाजलेषु ते ||७||
XO X
( चतुर्थः पादः )
स्त्रियां नृतोऽस्वस्रादेर्डीः | २|४|१॥
स्त्रीवृत्तेर्नान्ताद् ऋदन्ताच्च स्वनादिवर्जाद् 'डी' स्यात् । राज्ञी, अतिराज्ञी, कर्त्री । स्त्रियामिति किम् ? पञ्च नद्यः । अस्वस्रादेरिति किम् ? स्वसा, दुहिता ॥ १ ॥
अधातूदृदितः ।२|४|२॥
अधातुर्य उदिद् ऋदिच्च तदन्तात् स्त्रीवृत्ते- 'र्डी:' स्यात् । भवती, अतिमहती, पचन्ती । अधात्विति किम् ? सुकन् स्त्री ॥२॥
अञ्चः |२|४|३॥
अञ्चन्तात् स्त्रियां 'डीः' स्यात् । प्राची, उदीची ॥३॥ ण - स्वरा-घोषाद् वनो रश्च | २|४|४|
एतदन्ताद् विहितो यो वन् तदन्तात् स्त्रियां 'डी' स्यात्, तद्योगे वनोऽन्तस्य रश्च । अवावरी, धीवरी, मेरुदृश्वरी । ण-स्वरा -ऽघोषादिति किम् ? सहयुध्वा स्त्री । विहितविशेषणं किम् ? शर्वरी ॥४॥
वा बहुव्रीहेः | २|४|५ ॥
- स्वरा- Sघोषाद् विहितो यो वन् तदन्ताद् बहुव्रीहेः स्त्रियां 'डीर्वा' स्यात्, रश्चान्तस्य । प्रियावावरी, प्रियावावा । बहुधीवरी, बहुघीवा । बहुमेरुदृश्वरी, बहुमेरुदृश्वा ||५|