________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
९३ सहते । आदेरित्येव - लषति । ष्ट्यादिवर्जनं किम् ? ट्यायति, ठीव्यति, धवष्कते ॥९८॥
ऋ-र ल-लं कृपोऽकृपीटादिषु ।२।३।९९॥ 'कृपेक्रंत लत्, रस्य च ल स्यात्, न तु कृपीटादिविषयस्य । क्लप्यते, क्लप्तः; कल्पते, कल्पयति । अकृपीटादिष्विति किम् ? कृपीटम्, कृपाणः ॥१९॥
उपसर्गस्या-ऽयौ ।२।३।१००॥ उपसर्गस्थस्य ‘रस्याऽयौ धातौ परे ल्' स्यात् । प्लायते, पुत्ययते ॥१०॥
ग्रो यडि ।।३।१०१॥ यङि परे गिरते ‘रो लू' स्यात् । निजेगिल्यते ।।१०१।।
नवा स्वरे ।२।३।१०२॥ ग्रो रः स्वरादौ प्रत्यये परे विहितस्य 'ल् वा' स्यात् । गिलति, गिरति; निगाल्यते, निगार्यते । विहितविशेषणं किम् ? गिरः ॥१०२॥
परे-ऽङ्ग-योगे ।२।३।१०३॥ परिस्थस्य रो घादौ परे ‘ल् वा' स्यात् । पलिघः, परिघः; पल्यङ्कः, पर्यङ्कः; पलियोगः, परियोगः ॥१०३॥
ऋफिडादीनां डच लः ।।३।१०४॥ एषाम् 'ऋ-रो ल-लौ डस्य च ल वा स्यात् । लफिडः, लफिलः; ऋफिडः, ऋफिलः; लतकः, ऋतकः; कपलिका, कपरिका ||१०४॥
जपादीनां पो वः ।।३।१०५॥ एषाम् 'पो वो वा' स्यात् । जवा, जपा; पारावतः, पारापतः ॥१०५॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्योपज्ञशब्दानुशासन
लघुवृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः समाप्तः ।२।३।।