________________
३८]
[श्रीविचाररत्नाकरः निज्जरा कज्जइ अप्पतराए से पावे कम्मे कज्जइ[ ]इति भगवतवचनश्रवणादवसीयते नैवेयं क्षुल्लकभवग्रहणरूपा अल्पायुष्टा । न हि स्वल्पपापबहुनिर्जानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता संभाव्यते, जिनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात् । अथाप्रासुकादानस्य भवदुक्ता अल्पायुष्टा प्राणातिपातमृषावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नै तदेवम्, एकयोगप्रवृत्तत्वादविरुद्धत्वाच्चेति । अथ मिथ्यादृष्टिश्रमणब्राह्मणानां यदप्रासुकदानं ततो निरुपचरितैवाल्पायुष्टा युज्यते इलाभ्यां तु को विचार इति ? नैवम्, अप्रासुकेनेति तत्र विशेषणस्यानर्थकत्वात्, प्रासुकस्यापि अल्पायुष्टाफलत्वाविो धात, उक्तं च भगवत्या "समणोवासयस्स णं भंते ! तहारूवं असंजयअविरयअपडिहयपच्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ?, गोयमा! एगंतसो पावे कम्मे कज्जइ णो से काइ निज्जरा कज्जइ[ ]त्ति । यच्च पापकर्मण एव कारणं तदल्पायुष्टाया अपि कारणमिति । नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्त्तव्यमापन्नमिति, उच्यते-आपद्यतां नाम भूमिकापेक्षया को दोषः? । यतः
"अधिकारिवशाच्छास्त्रे धर्मसाधनसंस्थितिः ।
व्याधिप्रतिक्रिया तुल्या, विज्ञेया गुणदोषयोः" ॥१॥[अष्ठ२/५] तथा गृहिणं प्रति जिनभवनकारणफलमुक्तम्
"एतदिह भावयज्ञः, सद्गृहिणो जन्मफलमिदं परमम् ।
अभ्युदयाव्युच्छित्त्या, नियमादपवर्गबीजमिति" ॥१॥[षोड./६/१४] तथा"भन्नड़ जिणपूयाए, कायवहो जइ वि होइ उ कहिंचि।।
तह वि तई परिसुद्धा गिहीण कूवाहरणजोगो ॥२॥[पञ्च/४/४१] असदारंभवपवत्ता, जं च गिही तेण तेसि विन्नेया।
तन्निव्वित्तिफल च्चिय, एसा परिभावणीयमिदं" ॥३॥[पञ्चा./४/४३] दानाधिकारे तु श्रूयते, द्विविधाः श्रमणोपासका:-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्चेतिा यथोक्तम्
"संविग्गभावियाणं, लुद्धयदिटुंतभावियाणं च।
मोत्तूण खेत्तकाले, भावं च कर्हिति सुद्धछं" ॥१॥[य.स./गा.४ इति । तत्र लुब्धकदृष्टान्तभाविता यथाकञ्चिद्ददति । संविग्नभावितास्त्वौचित्येनेति । तच्चेदम्
"संथरणमि असद्ध, दण्ह वि गिण्हंतदितयाणऽहियं । आउरदिटुंतेणं, तं चेव हियं असंथरणे" ॥१॥ श्रा.दि./गा.१७५ ]
D:\ratan.pm5\5th proof