________________
श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः]
[३९ तथा "नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासक्कारकमजुयम्'[ इत्यादि। क्वचित् पाणे अइवाइत्ता मुसंवइत्ता इत्येवं भवति शब्दवर्जा वाचना तत्रापि स एवार्थः । क्त्वाप्रत्ययान्तं(न्ततया) वा व्याख्येया। प्राणानतिपात्यमृषोक्त्वा श्रमणं प्रतिलभ्य अल्पायुष्कतया कर्म बन्धन्तीति प्रक्रमः, शेषं तथैव । अथवा प्रतिलम्भनस्थानकस्यैवेतरेविशेषणे, तथाहि-प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथाभोः साधो! स्वार्थसिद्धमिदं भक्तादि कल्पनीयं वो न शङ्का कार्येत्यादि, ततः प्रतिलम्भ्य तथा कर्म कुर्वन्तीति प्रक्रमः । इह च द्वयस्य विशेषणत्वेनैकस्य विशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम् । गम्भीरार्थं चेदं सूत्रम्, अतोऽन्यथाऽपि भावनीयम् इतिश्रीस्थानाङ्गतृतीयस्थानकप्रथमोद्देशके ४४० प्रतौ ९८।९९ पत्रे॥३॥
इह हि जगद्गुरुणा श्रवर्द्धमास्वामिनाऽप्यनुमतयोः परमोपकारिणोर्मातापित्रोभक्त्यतिशयाय धर्मावबोधादिशुभोदर्काय च सर्वथा यतनीयं प्राज्ञैः । न च वाच्यं स्वस्ववेदविक्रियोपशमनाय प्रवृत्ताभ्यां ताभ्यां महीजलसंयोगोत्पन्नतृणन्यायेन कर्मवशादुत्पन्नाय प्राणिने किमुपकृतमिति ? । तदनन्तरमपि धारणपालनपोषणवात्सल्याद्यनेकोपकारकारित्वादशक्यप्रत्युपकारत्वमेव तयोः । न चेदं लौकिकमेव, आगमेऽपि (तथोक्तेः)। स चायम्
१"तिण्हं दुप्पडियारं समणाउसो !, तंजहा-अम्मापिऊणो भट्टिस्स धम्मायरियस्स, संपाओ वि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगित्ता गंधवट्टएण उव्वट्टित्ता तीहिं उदएहिं मज्जवित्ता सव्वालंकारविभूसियं करेत्ता मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावित्ता जावज्जीवाए पिट्ठिवडिंसयाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ, अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पन्वइत्ता परूवइत्ता ठावित्ता भवइ तेणामेव तस्स अम्मापिउस्स"वृत्तिर्यथा-'तिण्हं' इत्यादि 'तिण्हं' त्रयाणां दुःखेनकृच्छ्रेण प्रतिक्रियते-कृतोपकारेण पुंसा प्रत्युपक्रियते इति खल्प्रत्यये सति दुष्प्रतिकारं प्रत्युपकर्तुमशक्यमिति यावत् हे श्रमण ! हे आयुष्मन् ! समस्तनिर्देशो वा हे श्रमणायुष्मान्! इति भगवता शिष्यः संबोधितः । अम्बया-मात्रा सह पिता-जनकः अम्बापिता तस्येत्येकं स्थानम्, जनकत्वेनैकत्वविवक्षणात् । तथा-'भट्टिस्स'त्ति भर्तुः पोषकस्य
१. स्था. ३/१-१४३ सू.।
D:\ratan.pm5\5th proof