________________
श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः]
[३७ प्राणिनो यस्मात्तत् प्रासुकम् तन्निषेधादप्रासुकं सचेतनमित्यर्थः । तेन इष्यते गवेष्यते उद्गमादिदोषविकलतया साधुभिर्यत्तदेषणीयं कल्प्यं तन्निषेधादनेषणीयं तेन। अश्यते भुज्यते इत्यशनं-ओदनादि। पीयते इति पानं-सौवीरकादि। खादनं खादस्तेन निर्वृत्तं खादनार्थं तस्य निर्वर्त्यमानत्वादिति खादिमं-भक्तौषधादि। स्वादनं स्वादः, तेन निर्वृत्तं स्वादिमंच-दन्तपावनादीति। समाहारद्वन्द्वः तेन, गाथाश्चात्र
१ असणं ओदण-सत्तुग-मुग्ग-जगाराइ खज्जगविही य ।
खीरादि सूरणादि, मंडगपभिई य विन्नेयं ॥१॥[स्था./३-१-१३३व] पाणं सोवीरजोदगाइ, चित्तं सुराइयं चेव । आउक्काओ सव्वो, कक्कडगजलाइयं च तहा ॥२॥[स्था./३-१-१३३वृ.] भत्तोसं दंताई, खज्जूरं नालिकेरदक्खाई। कक्कडिअंबगफणसाइ, बहविहं खाइमं नेयं ॥३॥स्था./३-१-१३३व] दंतवणं तंबोलं, चित्तंअज्जगकुहेडगाईयं ।
मुहपिप्पलिसुंठाई, अणेगहा साइमं होइ" ॥४॥[स्था./३-१-१३३वृत्ति । प्रतिलम्भयिता लाभवन्तं करोतीत्येवंशीलो यश्च भवति । ते अल्पायुष्कतया कर्म प्रकुर्वन्तीति प्रक्रमः । 'इच्चेतेहिंति इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैस्त्रिभिः स्थानर्जीवा अल्पायुष्कतया कर्म प्रकुर्वन्तीति निगमनमिति । इह च प्राणातिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्बन्धनिबन्धनत्वेन तत्कारणत्वमुक्तं द्रष्टव्यमिति। इयं चास्य सूत्रस्य भावना-अध्यवसायविशेषेणैतत्त्रयं यथोक्तफलं भवतीति । अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याद्यारम्भेण न्यासापहरादिना च प्राणातिपातादिषु वर्त्तते तस्य सरागसंयम-निरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया । अथ नैतदेवं निविशेषणत्वात् सूत्रस्याल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वादतः कथमभिधीयते स विशेषणप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कता इति ? उच्यते, अविशेषणेऽपि सूत्रस्य प्राणातिपातादेविशेषणमवश्यं वाच्यम्, यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घायुष्टां वक्ष्यति । न हि समानहेतोः कार्यवैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात्। तथा 'समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! बहुतरिया से
१. पञ्चा. ५/गा.२७त.३० । २. तुलसी कुहेडगाई य । इति पञ्चाशक ५/३० गा. ।
D:\ratan.pm5\5th proof