________________
[श्रीविचाररत्नाकरः त्येवमभिधातुमिति ८, आलोचयितुं-गुरवे अपाधान्निवेदयितुमिति ९, प्रतिक्रमितुं-प्रतिक्रमणं कर्तुमिति १०, निन्दितुं-अतिचारान् स्वसमक्षं जुगुप्सितुं ११, आह च"सचरित्तपच्छायावो निंद'[ ]त्ति । गहिउँ-गुरुसमक्षं तामेव जुगुप्सितुं १२, आह च"गरहा वि तहा जातीयमेव नवरं परप्पयासणय'[ ]त्ति । 'विउट्टित्तए'त्ति व्यतिवर्तयितुं वित्रोटयितुं विकुट्टयितुं वा, अतिचारानुबन्ध विच्छेदयितुमित्यर्थः १३, विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति १४, अकरणतया पुनर्न करिष्यामीत्येवमभ्युत्थातुमभ्युपगन्तुमिति १५, यथार्हमतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात् प्रायाश्चित्तविशोधकत्वाद्वा प्रायश्चित्तम्। उक्तं च
"पावं छिंदड़ जम्हा, पायच्छित्तं तु भण्णते तेण ।
पाएण वावि चित्तं, विसोहए तेण पच्छित्तं" ॥१॥[आवनि./१५०८ ]त्ति । तपःकर्म निर्विकृतिकादिकं प्रतिपत्तुम्-अभ्युपगन्तुमिति १६ ।इति श्रीस्थानाङ्गद्वितीयस्थानकप्रथमोद्देशके ४४० प्रतौ ५४५५ पत्रे ॥२॥
केचिच्चानागमज्ञा मुनीनामशुद्धाशनादिदानं नरकायुर्बन्धफलमिति वदन्ति, तच्चानागमिकम्, अल्पायुष्कताया एवागमे तत्फलत्वेनोक्तत्वात्, अत्राशङ्कासमाधाने तु एतत्सूत्रतात्पर्यावबोधावगम्ये, तच्चेदम्
१तिहिंठाणेहिंजीवा अप्पाउयत्ताए कम्मंपकरेंति।तंजहा-पाणे अइवाइत्ता भवति १ मुसं वइत्ता भवति २ तहारूवं समणं वा माहणं वा अफासु एणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवति ३ इच्चेतेहिंतिहिं ठाणेहिंजीवा अप्पाउयत्ताए कम्मंपकरेंति' इति वृत्तिर्यथा-'तिहिं ठाणेहिं' इत्यादि त्रिभिः स्थानैः-कारणैर्जीवा:-प्राणिनः 'अप्पाउयत्ताए'त्ति अल्पं-स्तोकं आयुर्जीवितं यस्य सोऽल्पायुः तद्भावस्तत्ता तस्यै अल्पायुष्कतायै तदर्थं तन्निबन्धनमित्यर्थः । कर्मायुष्कादिा अथवा अल्पमार्युर्जीवितं यत् आयुषस्तदल्पायुः तद्भावस्तत्ता तया कर्मायुर्लक्षणं प्रकुर्वन्तिबन्धन्तीत्यर्थः। तद्यथा-प्राणान् स प्राणिनोऽतिपातयितेति शीला तृनि तृन्नन्तमिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः । एवम्भूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा तत्प्रकारं रूपं-स्वभावो नेपथ्यादिर्वा यस्य स तथारूपो दानोचित इत्यर्थः, तं श्राम्यति-तपस्यतीति श्रमणस्तपोयुक्तस्तं मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो मूलगुणधरस्तं, वाशब्दौ विशेषणसमुच्चयार्थौ । प्रगता असवोऽसुमन्तः
१. स्था. ३/१-१३३ सू. ।
D:\ratan.pm5\5th proof