________________
श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः]
[३५ २ तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यःस मनोयोगः३ ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापि'[ प्र.व.] इति। अन्ये तु व्याचक्षते-“कर्मनिष्यन्दो लेश्यति, सा च द्रव्यभावभेदाद् द्विधा । तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तज्जन्यो जीवपरिणामः'[ इति । इयं च षट्प्रकारा जम्बूखादकपुरुषषट्कदृष्टान्ताद् ग्रामघातकपुरुषषट्कदृष्टान्ताद्वा आगमप्रसिद्धादवसेयम् इति श्रीस्थानाङ्गप्रथमस्थानके ४४० प्रतौ ३१।३२ पत्रे॥१॥
पारम्पर्यवर्जिताः केचन विशिष्टक्षमाश्रमणप्रत्युपेक्षणादिकं गुरुपरम्परागतं योगविधिस्वरूपमजानाना दुष्करताचाम्लादिलघुकमैं कसाध्यनिरन्तरतपःक्रियाभीरवश्च योगोद्वहनं उद्देशसमुद्देशानुज्ञादिवचनैः प्रतिपदमागमोक्तमपि नाङ्गीकुर्वन्ति, तच्च तेषां चलनश्रमभिया मार्गत्यागपूर्वकं गर्तापातप्रायम्, योगविधिसत्तासूचक: सिद्धान्तश्चायम्
१'दो दिसाओअभिगिज्झकप्पति निग्गंथाणवाणिग्गंथीणवापव्वावित्तएपाईणं चेवदिणंचेव,एवंमुंडावित्तएसिक्खावित्तएउट्ठावित्तएसंभुंजित्तएसंवसित्तए सज्झायं उद्दिसित्तए सज्झायं समुद्दिसित्तए सज्झायमणुजाणित्तए आलोइत्तए पडिक्कमित्तएनिंदित्तएगरहित्तएविउट्टित्तएविसोहित्तएअकरणयाए अभ्भुट्टित्तएअहारिहं पायच्छित्तंतवोकम्मंपडिवज्जित्तए'। वृत्तिर्यथा 'दो दिसाओ' इत्यादि द्वे दिशौ-काष्ठे अभिगृह्य-अङ्गीकृत्य तदभिमुखीभूयेत्यर्थः। कल्पते-युज्यते, निर्गता ग्रंथाद्धनादेरिति निर्ग्रन्थाःसाधवस्तेषां, निर्ग्रन्थ्यः-साध्व्यस्तासां प्रव्राजयितुं रजोहरणादिदानेन प्राची-पूर्वामित्यर्थः उदीचीमुत्तरामित्यर्थः। उक्तं च
— मुव्वामुहो उ उत्तरमुहो व्व देज्जाऽहवा पडिच्छेज्जा।
जाए जिणादओ वाहविज्ज जिणचेइयाइंच"॥१॥[वि.भा./३४०५ इति । एवमति यथा प्रव्राजनसूत्रं द्विग्द्वयाभिलापेनाधीतम् एवं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्यानीति । तत्र मुण्डयितुं-शिरो लुञ्चनतः १, शिक्षयितुं-ग्रहणशिक्षापेक्षया सूत्रार्थो ग्राहयितुमासेवनशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति २, उत्थापयितुं-महाव्रतेषु व्यवस्थापयितुं ३, संभोजयितुं- भोजनमण्डल्यां निवेशयितुं ४, संवासयितुंसंस्तारकमण्डल्यां निवेशयितुं ५, सुष्ठ आ-मर्यादयाऽधीयते इति स्वाध्यायोऽङ्गादिस्तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति ६, समुद्देष्टु-योगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति ७, अनुज्ञातुं-तथैव सम्यगेतद्धारयान्येषां च प्रवेदये
१. स्था. २/१-७६ सू. । २. पुव्वाभिमुहो। ३. दिसाए जिणचेइयाई वा । वि.भा. ।
D:\ratan.pm5\5th proof