________________
श्रीविचाररत्नाकरे प्राच्यतटे
॥तृतीयस्तरङ्गः॥ "रसाश्रितं दुर्मदवादिवादग्रीष्मोष्मकाषङ्कषमाप्तशब्दम् ।
सतां सदा शस्यफलाप्तिहेतुं, प्रीत्याऽऽश्रये श्रीजिनशासनाब्दम्" ॥१॥ अथ क्र मायाताः श्रस्थानाङ्गवचारा लिख्यन्ते-तत्र प्रथमं कृष्णपाक्षिकशुक्लपाक्षिकयोः स्वरूपजिज्ञासया लेश्यास्वरूपविषये मतान्तरजिज्ञासया च सटीकं सूत्रद्वयं लिख्यते
१ 'एगा कण्हपक्खियाणं वग्गणा एगा सुक्कपक्खियाणं वग्गणा १। एगा कण्हलेसाणं वग्गणा एगा नीललेसाणं वग्गणा एवं जाव सुक्कलेसाणं वग्गणा" २॥ वृत्तिर्यथा-'एगा कण्हपक्खियाणं वग्गणा' इत्यादि कृष्णपाक्षिकेतरयोर्लक्षणम्
"जेसिमवड्डो पोग्गलपरियट्टो सेसओ उ संसारो।
ते सुक्कपक्खिया खलु, अहिए पुण कण्हपक्खी य" ॥१॥[स्था./१-५१७.]इति । एतद्विशेषितोऽन्यो दण्डकः । “एगा किण्हलेसाणं' इत्यादि । लिश्यते प्राणी कर्मणा यया सा लेश्या । यदाह श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः'। [ ] तथा "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः ।
___ स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते" ॥१॥[स्था./१-५१व.]इति । इयं च शरीरनामकर्मपरिणतिरूपा, योगपरिणतिरूपत्वात् । योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात्, यत उक्तंप्रज्ञापनावृत्कृि ता"योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या? यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति,ततोऽयोगत्वमलेश्यत्वंचप्राप्नोति,अतोऽवगम्यते योगपरिणामोलेश्येति। सपुनर्योगःशरीरनामकर्मपरिणतिविशेषः।यस्मादुक्तं-"कर्म हिकार्मणस्य कारणम् अन्येषां चशरीराणामिति।तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः१ तथौदारिकवैक्रियाहारकशरीव्यापाराहृतवाग्द्रव्यसमूहसाचिव्यात् जीवव्यापारोयःसवाग्योग:
१. स्था. १-५१ सू.।