________________
श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः ]
भवतिऋषिभाषित, उत्तराध्ययनेषु यथा । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धपष्ठाध्ययननिर्युक्तौ २७१ प्रतौ २४३ पत्रे ॥२०॥
केचिच्चात्रासदभिमानकवलितविशदाशयाः पण्डितम्मन्याः परेषां भोजनाद्यनुकम्पादानमपि निषेधयन्ति, वदन्ति चासद्वचनानि, मण्डूकपिण्डेन भुजगभोजनतुल्यं तद्दानमित्यादीति तच्चाज्ञानम्, यतोऽनुकम्पादानस्य श्रीजिनशासने कुत्राप्यनिषिद्धत्वात् । प्रत्युत श्रश्र राजप्रश्नीये केशीगणधरः प्रदेशिनप्र ति' पूर्वं रमणीयो भूत्वा पश्चादरमणीयो मा भूयाः ' इत्यादिवाक्यैरनुकम्पादानस्य विहितत्वेन प्रतीयमानत्वात् । न च वाच्यम्।
"
"सुहिएसु अ दुहिएसु अ, जा मे अस्संजएसु अणुकंपा ।
रागेण व दोसेण व, तं निंदे तं च गरिहामि ।।[ वं.सू./गा. ३१ ]
इत्यत्र तद्दानस्य प्रतिक्रान्तत्वादिति । तत्र निषेधतात्पर्यस्यरागद्वेषयोरेव विश्रान्तत्वात् । तथा चात्रापि तद्धर्मप्रशंसा पूर्वं सद्धर्मनिन्दापूर्वं च यदसंयतिभोजनं तदेव निषिद्धम् । विशेषणस्य विशेषार्थोद्दीपकत्वात् । सा गाथा चेयम्
'दयावरं धम्मं दुगुंछमाणो, वहावहं धम्म पसंसमाणो ।
इक्कं पि जो भोअयती असीलं, णिवो णिसं जाति कुतोऽसुरेहिं ?" ॥४५॥ दया-प्राणिषु कृपा तया वरः - प्रधानो यो धर्मः तमेवम्भूतं धर्मं जुगुप्समानो - निन्दन् । तथा वधं प्राण्युपमदर्मावहतीति वधावहः तं तथाभूतं धर्मं प्रशंसन् - स्तुवन्नेकमप्यशीलं निर्व्रतं षट्जीवकायोपमर्देन यो भोजयेत्, किं पुनः प्रभुतान् । नृपो राजन्यो वा यः कश्चिन्मूढमतिधार्मिकमात्मानं मन्यमानः, स वराको निशेव नित्यान्धकारत्वान्निशा - नरकभूमिस्तां याति । कुतस्तस्यासुरेष्वधमदेवेष्वपि प्राप्तिः । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धषष्ठाध्ययने २७१ प्रतौ २५४ पत्रे ॥ २१ ॥
इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशील
श्रीहीरविजयसूरीश्वरशिष्योपाध्याय श्रीकीर्त्तिविजयगणिसमुच्चि श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि श्रीसूत्रकृताङ्गकियद्विचारसमुच्चयनामा द्वितीयस्तरङ्गः ॥२॥
१. सूय. श्रु.२/अ.६ / ७८२ गा. ।
[ ३३
D:\ratan.pm5\5th proof