________________
३२]
[श्रीविचाररत्नाकरः वृत्तिर्यथा-बन्धः प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः स्वीकरणम् । स चामूर्तस्यात्मनो गगनस्येव न विद्यते, इत्येवं सञ्ज्ञां नो निवेशयेत्। तथा तदभावाच्च मोक्षस्याप्यभावः, इत्येवमपि सञ्ज्ञां नो निवेशयेत् कथं तर्हि सञ्ज्ञां निवेशये त्? इत्युत्तरार्द्धन दर्शयति-अस्ति बन्धः कर्मपुद्गलैर्जीवस्येत्येवं सञ्ज्ञां निवेशयेदितिा यत्तूच्यते-मूर्तस्यामूर्तिमता सम्बन्धो न युज्यते इति, तदयुक्तम्। आकाशस्य सर्वव्यापितया पुद्गलैरपि सम्बन्धो दुर्निवार्यः, तदभावे तद्व्यापितत्वमेव न स्यात् । अन्यच्चास्य विज्ञानस्य हृत्पूरमदिादिना विकार: समुपलभ्यते, न चासौ सम्बन्धमृते, अतो यत्किञ्चिदेतदिति । अपि च संसारिणामसुमतां सदा तेजसकार्मणशरीरसद्भावादात्यन्तिकममूर्त्तत्वं न भवतीति। तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तदभावे बन्धस्याप्यभावः स्यादित्यतोऽशेषबन्धनापगमस्वभावो मोक्षोऽप्यस्ति, इत्येवं सञ्ज्ञां निवेशयेत् इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धपञ्चमाचारश्रुताख्याध्ययने २७१ प्रतौ २३६ पत्रे ॥१९॥
ननु भगवत्यहाँ ऋषभदत्तदय एकादशाङ्गिनः श्रूयन्ते, तत्सम्बन्धाश्चैकादशाङ्गान्तःपातिनः, कथमिदं घटते ? कथं वा द्वादशझ्या नित्यत्वं घटते ? । एतच्छङ्कातङ्कापनोदाय लिख्यते
१'कामं दुवालसंगं, जिणवयणं सासतं महाभागं ।
सव्वज्झयणाणि तथा. सव्वक्खरसन्निवाया य।५।। तह वि य कोई अत्थो,उप्पज्जति तम्मि तस्मि समयंमि ।
पुव्वं भणिओऽणुमओ य, होइ इसिभासितेसु जहा"॥६।। ननु शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकमागमेआर्द्रकथानकं तु श्रबर्द्धमातीर्थावसरे तत्कथमस्य शाश्वतत्वमित्याश्ह क्याह-'काममित्यादि'' काममित्येतदभ्युपगमे इष्टमेवैतदस्माकम् । तद्यथा-द्वादशाङ्गमपि जिनवचनं नित्यं शाश्वतं महाभागं-महानभावम्, आमर्पोषध्यादिऋद्धिसमन्वितत्वान्न केवलमिदम् सर्वाण्यप्यध्ययनान्येवम्भूतानि । तथा सर्वाक्षरसन्निपाताश्च-मेलापका द्रव्यार्थादेशान्नित्या एवेति । ननु मतानुज्ञानाम निग्रहस्थानं भवत इत्याश्क्याह-'तह वि य' इत्यादि । यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतम्, तथाऽपि कोऽप्यर्थस्तस्मिन् समये तथा क्षेत्रे कुतश्चिाईकादे :सकाशादाविर्भावमास्कन्दति, स तेन व्यपदिश्यते । तथा पूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्च
१. सूय. श्रु.२/अ.६/१८८-१८९ नि.गा. ।
D:\ratan.pm5\5th proof