________________
श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः]
[३१ पुरस्काराः, एते चैकादशापि जिने केवलिनि न संभवन्ति । तत्कारणानां कर्मणामपगतत्वात्, न हि कारणाभावे क्वचित् कार्योत्पत्तिः, शेषास्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात् । ते चामी-क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्याः, एते च वेदनीयप्रभावास्तत्र केवलिनि विद्यन्ते । न च निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते, अतः केवलिनि क्षुद्वेदनीयादिपीडा संभाव्यते । के वलमसावनन्तवीर्यत्वान्न विह्वलीभवति । न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडामधिसहतो न च शक्यते वक्तुम्, एवंविधमेव तस्य भगवतः शरीरं यदुत क्षुत्पीडया न बाध्यते आहारमन्तरेण च वर्त्तते, यथा स्वभावेनैव स्वेदादिरहितम्, एवं प्रक्षेपाहाररहितमिति । एतच्चाप्रमाणकत्वादपकर्णनीयम । अपि च केवलोत्पत्तेः प्राग्भक्तेरभ्युपगमात् केवलोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपस्कार्यं, अथान्यथाभावः कैश्चिदुच्यते असावपि युक्तिरहितत्वादभ्युपगमकमात्र एवेति । तदेवं देशोनपूर्वकोटिकालस्य के वलिस्थिते: संभवादौदारिकशरीरस्थितेश्च यथायुष्कं कारणमेवं प्रक्षेपाहारोऽपि, तथाहि-तैजसशरीरेण मृदूकृतस्याभ्यवहृतस्य द्रव्यस्य स्वपर्याप्त्या परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण क्षुदुद्भवो भवति वेदनीयोदये सतीयं च सामग्री सर्वाऽपि भगवति केवलिनि संभवति तत्किमर्थमसौ न भाङक्त इति? । न च घातिचतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात्तदभाव इत्युच्येत, तदेवं संसारस्था जीवा विग्रहगतौ जघन्येनैकं समयम्, उत्कृष्टतः समयत्रयम् । भवस्थकेवली समुद्घातावस्थ: समयत्रयमनाहारकः । शैलेश्यवस्थायां त्वन्तर्मुहूर्त सिद्धास्तु सादिकमपर्यन्तमनाहारका इति स्थितम् ।इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धतृतीयाहारपरिज्ञाध्ययने २७१ प्रतौ २१६।२१७ पत्रे ॥१७॥
एते एव च स्त्रीणां मक्तिं न मन्वते । तत्पर्वोत्तरपक्षौ त इहैवाग्रे वक्ष्यमाणान्नन्दीविचारतरङ्गारसे यौ॥१८॥
ननु मूर्तामूर्तयोर्जीवकर्मणोः कथं सम्बन्धः येऽपि च क्षीरनीरसुवर्णमृत्तिकादयो दृष्टान्तास्तेऽपि वैधाध्यासिताः, तत्रोभयोर्मूर्त्तत्वात्, इयं हि शङ्का भूयसां चेतांसि मलिनयति । ततस्तदाशङ्कानिरासाय युक्तिसन्दर्भित आगमो लिख्यते
१ नत्थि बंधे व मोक्खे वा, नेव सन्नं निवेसए।
अत्थि वंधे व मोक्खे वा, एवं सन्नं निवेसए" ॥१५॥
१. सूय. श्रु.२/अ.५/७१९ गा. ।
D:\ratan.pm5\5th proof