________________
[ श्रीविचाररत्नाकरः
मोहनीयविकारस्तस्य चापगतत्वात् के वलिनो न भुक्तिरिति । एतदप्यसमीचीनम् । यतो मोहनीयविपाका क्षुन्न भवति । तद्विपाकस्य प्रतिपक्षभावनया प्रतिसङख्यानेन निवर्त्य - मानत्वात् । तथाहि कषायाः प्रतिकूलभावनया निवर्त्तन्ते । तथा चोक्तम्"उवसमेण हणे कोहं, माणं मद्दवया जिणे ।
३०]
मायं चऽज्जवभावेण, लोहं संतुट्ठिए जिणे " ॥१॥ [ ति.गा. / १२०२ ] मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीतैव । वेदोदयोऽपि विपरीतभावनया निवर्त्तते । तदुक्तम्—
I
"काम ! जानामि ते मूलं, सङ्कल्पात् किल जायसे ।
ततस्तं न करिष्यामि, ततो मे न भविष्यसि ॥१॥ [ ]
हास्यादिषट्कमपि चेतोविकाररूपतया प्रतिसङख्यानेन निवर्त्तते । क्षुद्वेदनीयं तुरोग - शीतोष्णादिवज्जीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण विनिवर्त्तते अतो न मोहस्वभावा क्षुदिति । तदेवं व्यवस्थिते यत्कैश्चिदाग्रहगृहीतैरभिधीयते यथा— "अपवर्त्तते कृतार्थं, नायुर्ज्ञानादयो न हीयन्ते ।
जगदुपकृतावनन्तं, वीर्यं किं गततृषो भुक्तिः " ॥ १ ॥ [ ]इति ।
तदेतत् प्लवते, यतश्छद्मस्थावस्थायामप्येतदस्तीति तत्रापि किमिति भुङ ते ? तत्र समस्तवीर्यान्त्रायक्षयाभावाद्भुक्तिसद्भावः इति चेत्तदयुक्तम् । यतः किं तत्रायुष्कस्यापवर्त्तनं स्यात् ? किं वा चतुर्णां ज्ञानानां काचिद्धानिः स्यात् ? येन भुक्तिः, इति । तस्माद्यथा दीर्घकालस्थितेरायुष्कं कारणम् एवमाहारोऽपि । यथा सिद्धिगतेर्व्युपरतक्रियस्य ध्यानस्य चरमक्षणः कारणम् एवं सम्यक्त्वादिकमपीति । अनन्तवीर्यताऽपि तस्याहारग्रहे सति न विरुद्ध्यते । यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्ति एवमाहारक्रियाऽपि विरोधाभावात्, न ह्यत्र बलवत्तरस्य वीर्यवतोऽल्पीयसी क्षुदिति । एवं व्यवस्थिते यत्किञ्चिदेतत् । अपि च- एकादशपरीषहा वेदनीयकृता जिने प्रादुष्षन्ति । अपरे त्वेकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्तिं साध्यति । तथाहि " क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाच्ञालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानदर्शनानि ॥” [ तत्त्वा.९/९ इत्येते द्वाविंशतिः मुमुक्षूणां परिषोढव्याः परीषहाः । तेषां च मध्ये ज्ञानावरणीयोत्थौ प्रज्ञाज्ञानाख्यौ, दर्शनमोहनीयसंभवो दर्शनपरीषहो, अन्तरायोत्थोऽलाभपरीषहः, चारित्रमोहनीयसंभवास्त्वमी - नाग्न्यारतिस्त्रीनिषद्याऽऽक्रोशयाञ्चासत्कार
D:\ratan.pm5\5th proof