________________
श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः]
[२९ तावत्तस्य वेदनोत्पद्यते, तद्वेदनीयस्य दग्धरज्जुस्थानिकत्वात् सत्यामपि न तस्य तत्कृता पीडा, अनन्तवीर्यत्वात् । वैयावृत्यकारणं तु भगवति सुासुरनराधिपतिपूज्यत्वे न संभाव्यते एवेति। ईर्यापथ:(थं) केवलज्ञानावरणपरिक्षयात् सम्यगवलोकयत्येवासौ। संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितार्थत्वादनन्तवीर्यत्वान्नाहारग्रहणायकारणीभवति प्राणवृत्तिस्तु तस्यानपवर्त्तित्वादायुषोऽनन्तवीर्यत्वाच्चान्यथासिद्धैव। धर्मचिन्तावसरस्त्वपगतो निष्ठितार्थत्वात्। तदेवं केवलिन: कावलिक आहारो बह्वपायत्वान्न कथञ्चिद्घटते इति स्थितम्। अत्रोच्यते-तत्र यत्तावदुक्तं घातिकर्मक्षये केवलज्ञानोत्पत्तावनन्तवीर्यत्वान्न केवलिनो भुक्तिरिति। तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनम्। तथाहियदाहारनिमित्तं वेदनीयं कर्म तत्तस्य तथैवास्ते । किमिति शारीरी स्थितिः प्राक्तनी न भवति?, प्रमाणं च-अस्ति केवलिनो भुक्तिः समग्रसामग्रीकत्वात् पूर्वभुक्तिवत्। सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा-पर्याप्तत्वं वेदनीयोदयः आहारपक्तिनिमित्तं तैजसशरीरं दीर्घायुष्कत्वं चेति। तानि च समस्तान्यपि केवलिनि सन्ति । यदपि दग्धरज्जुस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयुक्तिसङ्गतं च, आगमे ह्यत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपि-यदि घातिकर्मक्षयाद् ज्ञानादयस्तस्याऽभूवन् वेदनीयोद्भवायाः क्षुधः किमायातं ? येनाऽसौ न भवति । न तयोश्छायातपयोरिव सहानवस्थानलक्षणो नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति । सातासातयोश्चान्तर्मुहूर्तपरिवर्त्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव। न चाहारग्रहणे तस्य किञ्चित् क्षीयते, केवलमाहोपुरुषिकामात्रमेवेति । यदप्युच्यते-वेदनीयस्योदीरणाया अभावात् प्रभूततरपुद्गलोदयाभावः, तदभावाच्चात्यन्तं वेदनीयपीडाऽभावः, इतिवछमात्रम् । तथा हि-अविरतसम्यग्दृष्ट्यादिष्वेकादशसु गुणस्थानकेषु वेदनीयस्य गुणश्रेणीसद्भावात् प्रभूतपुद्गलोदयसंभवः किं तेषु प्राक्तने भ्योऽधिकपीडासद्भाव:? इति । अपि च यो जिने सातोदयस्तीव्रः, कि मसौ प्रचुरपुद्गलोदये ? ने त्यतो यत्किञ्चिदेतदिति । तदेवं सातोदयवदसातोदयोऽप्यनिवारित इति, तयोरन्तर्मुहूर्त्तकालेन परिवर्त्तमानत्वात्, यदपि कैश्चिदभिधीयते विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासकालं यावदत्यन्तं सातोदय एवेति । असावपि यदि स्यान्न नो बाधायै, के वलिनां भुक्तेरनिवारितत्वात् । यदप्युच्यते आहारविषयाकड क्षारूपा क्षुद्भवति, अभिकक्षा चाहारपरिग्रहबुद्धिः, सा च
D:\ratan.pm5\5th proof