________________
२८]
[श्रीविचाररत्नाकरः यमुतापेक्षया पक्षान्तरोपग्रहार्थः । क्वचित् साधुदर्शने सति मिथ्यात्वोपहतदृष्टितया अपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टिपथादपसारयन् साधुमुद्दिश्यावज्ञयाऽप्सायाःचप्पुटिकाया आस्फालयिता भवति । अथवा तत्तिरस्कारमापादयन् परुषं वचो ब्रूयात् । तद्यथा-ओदन(उदर)मुण्ड ! निरर्थककायक्लेशपरायणदुर्बुद्धे ! अपसराग्रतस्तदसौ भृकुटिं वा विदध्यादसभ्यं वा ब्रू यात्। तथा भिक्षाकाले नापि से-तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनुपश्चात् प्रविष्टस्य सतोऽत्यन्तदुष्टतयाऽन्नादे! दापयिता भवति, अपरं च दानोद्यतं निषेधयति । तत्प्रत्यनीकतयैतच्च ब्रूते-ये इमे पाखण्डिका भवन्ति ते एवम्भूता भवन्तीत्याह-'वोण्ण'त्ति तृणकाष्ठहारादिकं अधमं कर्म, तद्विद्यते येषां ते तद्वन्तः । तथा भारेण कुटुम्बभारेण पोट्टलिकादिभारेण वाऽऽक्रान्ताः-पराभग्नाः सुखलिप्सवोऽलसा क्रमागतं कुटुम्बकं पालयितुमसमर्थास्ते पाखण्डव्रतमाश्रयन्ति । तथा चोक्तम___ "गृहाश्रमपरो धर्मो, न भूतो न भविष्यति।
पालयन्ति नराः शूराः, क्लीबा: पाखण्डमाश्रिताः" ॥१॥[ ] तथा-'वसलगा' इति, वृषला अधमाः शूद्रजातयस्त्रिवर्गप्रतिचारकास्तथा कृपणा: क्लीबा अकिञ्चित्कराः श्रमणा भवन्ति प्रव्रज्यां गृह्णन्तीति ।इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धाद्वितीयक्रियास्थानाख्याध्ययने २७१ प्रतौ २०४ पत्रे ॥१७॥
एतेन ये केचिज्जैनश्राद्धतया विदिता अपि मुनीनामाहारादि निषेधयन्ति, साधुतया विदिताश्च ये केचन तमुपदेशं ददति ते उभयेऽपि आगाढमिथ्यात्विनो द्रष्टव्याः ।
अपरे च केचन केवलिनामाहारमनागमिकमयौक्तिकं च मन्वते ततस्तदवबोधाय तत्र युक्त्यागमौ लिख्येते
१'अंतोमुत्तमद्धा, सेलेसीए भवे अणाहारो।
सादीयमणिधणं पुण, सिद्धाणाहारगा होति"।८।। 'अंतोमुहुत्तम्' इत्यादि। शैलेश्यवस्थाया आरभ्य सर्वथाऽनाहारक: सिद्धावस्थाप्राप्तावचनन्तमपि कालं यावदिति । पूर्वं तु कावलिकव्यतिरेके ण प्रतिसमयमाहारकः । कावलिकेन तु कादाचित्क इति । ननु केवलिनो घातिकर्मक्षयेऽनन्तवीर्यत्वान्न भवत्येव कावलिकाहारः। तथाहि-आझादाने यानि वेदनीयादीनि षट् कारणान्यभिहितानि तेषां मध्ये एकमपि न विद्यते के वलिनि, तत्कथमसावाहारं बहुदोषदुष्टं गृह्णीयात् ? । तत्र न
१. सूय. श्रु.२/अ.३/१७६ नि.गा. |
D:\ratan.pm5\5th proof