________________
श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः ]
[ २७
I
आइक्खे विभए किट्टे उवट्ठिएसु वा अणुवट्ठिएसु वा सुस्सूसमाणेसु पवेदए” ॥ इति वृत्तिर्यथा-संयमयात्रायां मात्रा संयमयात्रामात्रा, यावत्याऽऽहारमात्रया संयमयात्रा भवति सा तथा तया संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा । तदपि बिलप्रवेशपन्नगभूतेनात्मनाऽऽहारमाहरेत् । इदमुक्तं भवति-यथा-अहिर्बिलं प्रविशंस्तूर्णं प्रविशति, एवं साधुनाप्याहारस्तत्स्वादमनास्वादयता शीघ्रं प्रवेशयितव्य इति । यदि वा सर्पेणेवाहारो लब्ध्वाऽनास्वादमभ्यवहार्यत इति । तदेव चाहारादिकं दर्शयितुमाह- अन्नं भक्तं अन्नकाले सूत्रार्थपौरुष्यनन्तरकाले, भिक्षाकाले प्राप्ते पुरः पश्चात्कर्मपरिहृतं भवति । यथोक्तभिक्षाटनेन ग्रहणकालावाप्तं भैक्ष्यं परिभोगकाले भुञ्जीत । तथा पानकं पानकाले, नातितृषितो भुञ्जीत, नाऽप्यतिबुभुक्षितः पानकं पिबेदिति । वस्त्रं वस्त्रकाले गृहणीयादुपभोगं वा कुर्यात् । तथा लयनं-गुहादिकमाश्रयस्तस्य वर्षास्ववश्यमुपादानमन्यदा त्वनियमः । तथा शय्यतेऽस्मिन्निति शयनं संस्तारकः, स च शयनकाले । तत्राप्यगीतार्थानां प्रहरद्वयं निद्राविमोक्षो गीतार्थानां तु प्रहरमेकमिति । स भिक्षुा हरोपधिशयनस्वाध्यायध्यानादीनां मात्रां जानातीति तद्विधिज्ञः सन्नन्यतरां दिशं अनुदिशं वा प्रतिपन्नः समाश्रितो धर्ममाख्यापयेत्प्रतिपादयेत्, येन यद्विधेयं तद्यथायोगं विभजेत्, धर्मफलानि च कीर्त्तयेदाविर्भावयेत्, तच्च धर्मकर्मकथनं परहितार्थप्रवृत्तेन साधुना सम्यगुपस्थितेष्वनुपस्थितेषु वा कौतुकादिप्रवृत्तेषु शुश्रूषमाणेषु श्रोतुं प्रवृत्तेषु स्वपरहिताय प्रवेदयेदावेदयेत् इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धप्रथमपुण्डरीकाध्ययने २७१ प्रतौ १९१ पत्रे ॥१६॥
यः साधूनामवज्ञाकारी भवति स आगाढमिथ्यादृष्टिरुच्यते, इत्यभिप्राय लिख्यते९' से एगइओ समणं वा माहणं वा दिस्सा णाणाविधेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ । अदुवा णं अच्छाते आफालेत्ता भवइ । अदुवा णं फरुसं वइत्ता भवइ । कालेण वि से अणुपविट्ठस्स असणं वा पाणं वा जाव नो दवावेत्ता भवइ । जे इमे भवंति वोन्नमंता भारक्कंता अलसगा वसलगा किवणगा पव्वयंति’इति । वृत्तिर्यथा - साम्प्रतं विपर्यस्तदृष्टयो गाढमिथ्यादृष्टयोऽभिधीयन्ते 'से एगइओ' इत्यादि । अथैककः कश्चिदभिगृहीतमिथ्यादृष्टिरभद्रकः साधुप्रत्यनीकतया श्रमणादीनां निर्गच्छतां प्रविशतां वा स्वतश्च निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादानभूतैः कर्मभिरात्मानमुपख्यापयिता भवतीति । एतदेव दर्शयतिअथवेत्य१. सूय. श्रु.२/अ.२/६६४ सू. मध्ये ।
D:\ratan.pm5\5th proof