________________
२६]
[ श्रीविचाररत्नाकरः
एवं मन्दा-जडा वदन्ति । न च निमित्तस्य तथ्यता । तथाहि - कस्यचित् क्वचित् क्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात्, शकुनसद्भावेऽपि कार्यविघातदर्शनात्, अतो निमित्तबलेनादेशविधायिनां मृषावाद एव केवलमिति । नैतदस्ति । न हि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति । यदपि षट्स्थानपतित्वमुद्धुष्यते तदपि पुरुषाश्रितक्षयोपशमवशेन । न च प्रमाणाभासव्यभिचारे सम्यक्प्रमाणव्यभिचारशङ्का कर्त्तुं युज्यते । तथाहि-मरुमरीचिकाजले (निचये) जलग्राहिप्रत्यक्षं व्यभिचरतीति कृत्वा किं सत्यजलग्राहिणोऽपि प्रत्यक्षस्य व्यभिचरो युक्तिसङ्गतो भवति ? । न हि मशकवत्तिरग्निसिद्धावुपदिश्यमाना व्यभिचारिणीति सत्यधूमस्यापि व्यभिचारो । न हि सुविवेचितं कार्यं कारणं व्यभिचरतीति। ततश्च प्रमातुरयमपराधो न प्रमाणस्य । एवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचारीति । यश्च क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शङक्यते, सोऽनुपपन्नः । तथाहि — कार्याकूतात् क्षुतेऽपि गच्छतो या कार्यसिद्धिः साऽपान्तरालेतरशोभननिमित्तबलात्सञ्जातेत्येवमवगन्तव्यम् । शोभननिमित्तप्रस्थितस्यापीतरनिमित्तबलात् कार्यव्याघात इति । तथा च श्रुतिः "किल बुद्धः स्वशिष्यानाहूयोक्तवान् यथाद्वादशवार्षिकमत्र दुर्भिक्षं भविष्यत्यतो देशान्तराणि गच्छत यूयम् । ते च तद्वचनाद् गच्छन्तस्तेनैव प्रतिषिद्धाः । यथा मा गच्छत यूयम् । इहाद्यैव पुण्यवान् महासत्त्वः सञ्जातः, तत्प्रभावात् सुभिक्षं भविष्यति'[ ]| तदेवमन्तरापरनिमित्तसद्भावान्न तद्व्यभिचारशङ्केति स्थितम् । इति सूत्रकृताङ्गप्रथम श्रुतस्कन्धे द्वादशे समवसरणाध्ययने २७१ प्रतौ १४७ पत्रे ॥१५॥
एतेन ये केचन वदन्ति शकुनादिनिमित्तमनैकान्तिकत्वाद् व्यभिचारित्वाच्चान्वयव्यतिरेकाभ्यामप्रमाणमिति तेऽपि निरस्ता वेदितव्याः ॥
केचिच्चाऽत्रामुद्राज्ञाननिद्रामुद्रितान्तः करणाः स्वमतविशेषदर्शनाय च स्त्रीषु नाग्न्यमेव विशेषः, 'इति न्यायमङ्गीकृत्य यथोक्तावसरविधेयामपि वङमात्रेण निद्रां निषिद्ध्य स्वपाण्डित्यं दर्शयन्ति । स च गृहज्वालनात् कीर्त्यपादनम् 'अयमेव न्यायः, शास्त्रे निद्राकालस्याप्युक्तत्वात् स चायं सूत्रार्थाभ्यां लिख्यते
१‘संजमजायामायावत्तियं बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा । अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणं लेणकाले, सयणं सयणकाले, से भिक्खू मायन्ने अन्नयरं दिसं अणुदिसं वा पडिवन्ने धम्मं १. सूय. श्रु.२/अ.१ / ६४७ सू. . मध्ये ।
D:\ratan.pm5\5th proof