________________
श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः]
[२५ 'संवत्सरम्' इत्यादि सांवत्सरं ज्योतिषं, स्वप्नप्रतिपादको ग्रन्थः स्वप्नस्तमधीत्य, लक्षणं श्रीवत्सादिकं, चशब्दादान्तरबाह्यभेदभिन्नं, निमित्तं वाक्प्रशस्तशकुनादिकम् देहे भवं दैहं मषतिलकादिकम्, उत्पाते भवमौत्पातिकमुल्कापातदिग्दाहनिर्घातभूमिकम्पादिकम्, तथाऽष्टाङ्गं च निमित्तमधीत्य । तद्यथा-भौममुत्पातं स्वप्नं आन्तरिक्षं आङ्गं स्वरं लक्षणं व्यञ्जनं इत्येवंरूपंनवमपूर्वतृतीयाचारवस्तुवनिर्गतं सुखदुःखजीवितमरणलाभालाभादिसंसूचकं निमित्तमधीत्य लोकेऽस्मिन्नतीतानि वस्तूनि अनागतानि च जानन्ति परिच्छिदन्ति । न च शून्यादिवादेष्वेतद् घटते, तस्मादप्रमाणमेव तैरभिधीयते, इत्येवं व्याख्याते सति आह पर:-ननु व्यभिचार्यपि श्रुतमुपलभ्यते । तथाहि-चतुर्दशपूर्वविदामपि षट्स्थानपतित्वमागम उद्घष्यते, किं पुनरष्टाङ्गनिमित्तशास्त्रविदाम् ?। अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसाऽर्द्धत्रयोदशशतानि सूत्रम्, तावन्त्येव सहस्राणि वृत्तिः, तावत्प्रमाणलक्षा परिभाषेति । अङ्गस्यार्द्धत्रयोदशसहस्राणि सूत्रम्, तावत्परिमाणलक्षा वृत्तिः, अपरिमितं वार्तिकमिति ॥९॥
तदेवमष्टाङ्गनिमित्तवेदिनामपि परस्परतः षट्स्थानपतित्वेन व्यभिचारित्वमत इदमाह१ केई निमित्ता तहिया भवंति,
केसिं च तं विप्पडिएति णाणं । ते विज्जभावं अणहिज्जमाणा,
आहंसु विज्जापरिमोक्खमेव (जाणाम लोगंसि वयंति मंदा)" ॥१०॥ 'केई णिमित्ता' इत्यादि छान्दसत्वात् प्राकृतशैल्या वा लिङ्गव्यत्ययः कानिचिन्निमित्तानि तथ्यानि सत्यानि भवन्ति । केषाञ्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तन्निमित्तज्ञानं विपर्यासं-व्यत्ययमेति । आर्हतानामपि निमित्तव्यभिचार: समुपलभ्यते, किं पुनरन्यतीथिकानां (स्तीथिकानां) । तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य ते अक्रियावादिनो विद्यासद्भावमनधीयमानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते 'आहंसु विज्जा परिमोक्खमेव' विद्यायाः-श्रुतस्य व्यभिचारेण तस्य परिमोक्षं-परित्यागमाहुरुक्तवन्तः । यदि वा क्रियाया अभावाद्विद्ययाज्ञानेनैवमोक्षं सर्वकर्मच्युतिलक्षणमाहुरिति । क्वचिच्चरमपादस्यैवं पाठः-जाणाम लोगंसि वयंति मंदा' त्ति विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोके भावान्वयं जानीमः,
१. सूय. श्रु.१/अ.१२/५४४ गा.।
D:\ratan.pm5\5th proof