________________
२४]
[श्रीविचाररत्नाकरः
तथा"उद्यमाच्चारुचित्राङ्गि!, नरो भद्राणि पश्यति ।
उद्यमात् कृमिकीटोऽपि, भिनत्ति महतो द्रुमान्" ॥२॥[] तदेवं सर्वानपि कालादीन् कारणत्वेनाभ्युपगच्छंस्तथाऽऽत्मपुण्यपापापरलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाभ्युपगन्तव्यः। शेषकास्तु वादा अक्रियावादाज्ञानवादवैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः, तथाहि-अक्रियावादी अत्यन्तनास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपह्नुवन्मिथ्यादृष्टिरेव भवति । अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्शके ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन कथं नोन्मत्तः स्यात्? । तथा विनयवाद्यपि विनयादेव केवलाद् ज्ञानक्रियासाध्यां सिद्धिमिच्छन्नपकर्णयितव्यः । तदेवं विपरीतार्थाभिधायितयैते मिथ्यादृष्टयोऽवगन्तव्याः । ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तः, तत्कथमिह सम्यग्दृष्टित्वेनोच्यत इति, उच्यते-स तत्रास्त्येव जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वंस्तथा काल एवैक: सर्वस्यास्य जगतः कारणम् तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एवेत्येवमपरनिरपेक्षतयैकान्तेन कालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वम्। तथाहि-अस्त्येव जीव इत्येवमस्तिना सह जीवस्य सामान्याधिकरण्याद्यदस्ति तज्जीव इत्येव प्राप्तमतो निरवधारणपक्षसमाश्रयणादिहसम्यक्त्वमभिहितम। तथा कालादीनामपि समुदितानां परस्परसव्यपेक्षाणां कारणत्वेनेहाश्रयणादिह सम्यक्त्वमभिहितमिति। ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदिते सम्यक्त्वसद्भावः?, न हि यत् प्रत्येकं नास्ति तत्समुदाये भवितुमर्हति, सिकतातैलवत् । नैतदस्ति । प्रत्येकं पद्मरागादिमणिष्वविद्यमानाऽपि रत्नावली समुदाये भवन्ती दृष्टा। न हि दृष्टेऽनुपपन्नं नामेति यत्किञ्चिदे तत् इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धद्वादशाध्ययने २७१ प्रतौ १३४ पत्र॥१४॥
अत्र केषाञ्चिदन्यदर्शनिनामपि ज्योतिर्निमित्तशकुनादिभिर्भाविवस्तुसंवादीनि ज्ञानान्यालोक्याविदितपरमार्थैरहो एतेऽप्यतिशयवन्तः प्रशस्या इति व्यामोहो न विधेयः । तेषां तद्गतानामपि ज्योतिर्निमित्तादिज्ञानानां पूर्वान्तःपातित्वेन गणधरप्रणीतत्वात् । तत्र चागम:
१'संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उपाइयं च । ___ अटुंगमेयं बहवे अहित्ता, लोगंसि जाणंति अणागयाइं"।९।।
१. सूय. श्रु.१/अ.१२/५४३ गा. ।
D:\ratan.pm5\5th proof