________________
[२३
श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः]
इदानीं तेषां सम्यग्मिथ्यावादित्वं विभागेन यथा भवति तथा दर्शयितुमाह१ सम्मट्टिी किरियावादी मिच्छा य सेसगा वादी ।
जहिऊण मिच्छवायं, सेवह वायं इमं सच्चं"।६।। 'सम्मट्ठिी'त्यादि सम्यगविपरीता दृष्टिदर्शनं पदार्थपरिच्छित्तिर्यस्याऽसौ सम्यग्दृष्टिः । कोऽसावित्याह-क्रियामस्तीत्येवम्भूतां वदितुं शीलमस्येति क्रियावादी । अत्र क्रियावादीत्येतत् 'अत्थि त्ति किरियवादी' इत्यनेन प्राक्प्रसाधितं सदनूद्य सम्यग्दृष्टित्वं विधीयते, तस्यासिद्धत्वादिति । तथाहि-अस्ति लोकालोकविभागः । अस्त्यात्मा । अस्ति पुण्यपापविभागः । अस्ति तत्फलं स्वर्गनरकावाप्तिलक्षणम् । अस्ति काल: कारणत्वेनाऽशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णवर्षवनस्पतिपुष्पफलादिषु चेति । तथा चोक्तम्
"कालः पचति भूतानि, कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः" ॥१॥ शा.वा./२।५४] तथाऽस्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः स्वो भावः स्वभाव इति कृत्वा, तेन हि जीवाजीवभव्यत्वाभव्यत्वमूर्त्तत्वामूर्त्तत्वानां स्वस्वरूपानुविधानात् । तथा धर्माधर्माकाशकालादीनां च गतिस्थित्यवगाहपरत्वापरत्वादिस्वरूपापादनादिति । तथा चोक्तम्-'क कण्टकानां''[लो.नि./१६ ] इत्यादि ।
तथा नियतिरपि कारणत्वेनाश्रीयते । तथा पदार्थानां नियतेरेव निष्पन्नत्वात् । तथा चोक्तम्"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा।
भूतानांमहति कृतेऽपि हिप्रयत्ने,नाभाव्यं भवतिन भाविनोऽस्ति नाशः"॥१॥ लोनि./१०४] तथा पुाकृतं तच्च शुभाशुभमिष्टानिष्टफलकारणम् । तथा चोक्तम्
“यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिहोपतिष्ठते ।
तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्त्तते" ॥१॥[लो.नि./९३] तथा "स्वकर्मणा युक्त एव, सर्वो ह्युत्पद्यते जनः।
स तथा कृष्यते तेन, न यथा स्वमिच्छति" ॥२॥[ ]इत्यादि । तथा पुरुषकारोऽपि कारणं, यस्मान्न पुरुषकारमन्तरेण किञ्चित् सिध्यति। तथा चोक्तम्
"न दैवमिति सञ्चिन्त्य, त्यजेदुद्योगमात्मनः । अनद्यमेन कस्तैलं, तिलेभ्यः प्राप्तमर्हति ?" ॥१॥] १. सूय. श्रु.१/अ.१२/१२१ नि.गा.।
D:\ratan.pm5\5th proof