________________
२२]
[ श्रीविचाररत्नाकरः
औदयिकादिभावस्वरूपं जिज्ञासया लिख्यते
१' भावसमोसरणं पुण, णायव्वं छव्विहंमि भावंमि ।
"
अहवा किरिय अकिरिया, अण्णाणी चेव वेणइया ॥२॥ ‘भावसमोसरणम्' इत्यादि भावानामौदयिकादीनां समवसरणमेकत्र मेलापको भावसमवसरणम् । नौ दयिकोभाव एकविंशतिभेदः । तद्यथा - गतिश्चतुर्धा, कषायाश्चतुर्विधाः, एवं लिङ्गं त्रिविधम्, मिथ्यात्वाज्ञानासंयतत्वासिद्धत्वानि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभेदेन षड्विधा भवन्ति १ औपशमिकोद्विविधः, सम्यक्त्वचारित्रोपशमभेदात् २। क्षायोपशमिकोष्टादशभेदः । तद्यथा - ज्ञानं मतिश्रुतावधिमनःपर्याभेदाच्चतुर्विधम्। अज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदात्त्रिविधम्, दर्शनं चक्षुरचक्षुरवधिदर्शनभेदात्त्रिविधम्, लब्धिः दानलाभभोगोपभोगवीर्यभेदात्पञ्चधा, सम्यक्त्वचारित्रसंयमासंयमा: प्रत्येकमेकैकप्रकारा इति ३ क्षायिक नवप्रकारः । तद्यथा - केवलज्ञानं केवलदर्शनं दानादिलब्ध्यः पञ्च सम्यक्त्वं चारित्रं चेति ४ । जीवत्वभव्यत्वाभव्यत्वभेदावारिणामिकस्त्रिविधः ५।सान्निपातिक्स्तु द्वित्रिचतुःपञ्चकसंयोगैर्भवति । तत्र द्विकसंयोग: सिद्धस्य क्षायिकपारिणामिकभावद्वयसद्भावादवगन्तव्यः । त्रिकसंयोगस्तु मिथ्यादृष्टिसम्यग्दृष्ट्यविरतविरतानामौदयिक क्षायोपशमिकपारिणामिकभावसद्भावादवगन्तव्य:, तथा भवस्थकेवलिनोऽप्यौदयिक क्षायिकपारिणामिकभावसद्भावाद्विज्ञेय इति । चतुष्कसंयोगोऽपि क्षायिकसम्यग्दृष्टीनामौदयिक क्षायिकक्षायोपशमिकपारिणामिकभावसद्भावात्, तथौपशमिकसम्यग्दृष्टीनामौदयिकौपशमिकक्षायोपशमिकपारिणामिक भावसद्भावाच्चेति । पञ्चकसंयोगस्तु क्षायिकसम्यग्दृष्टीनामुपशमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपञ्चकसद्भावाद्विज्ञेय इति । तदेवं भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगात् संभविनः सान्निपातिकभेदाः षड् भवन्ति । एत एव त्रिकसंयोगचतुष्कसंयोगगतिभेदात् पञ्चदशधा प्रदेशान्तरेऽभिहिता: । इति सूत्रकृताङ्गप्रथम श्रुतस्कन्धद्वादशसमवसरणाध्ययननिर्युक्तिगाथा २७१ प्रतौ १२७पत्रे ॥१३॥
अत्र केचित् कठिनहठाः प्राक्कृतकर्मैकप्राधान्यवादिनः केचिच्चोद्यमप्राधान्यैकवादिन एवं कालादिप्राधान्यवादिनोऽपि तच्चासत् । जैनसिद्धान्तवेदिभिस्तु समुदाय एव प्राधान्येन वाच्य इत्यर्थसूचको विचारो लिख्यते
१. सूय. श्रु. १ / अ.१२ / ११७ नि.गा. ।
D:\ratan.pm5\5th proof
-