________________
श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः]
[२१ साधूनां केनचिद्विप्रादिना वापीकूपसत्रादिषु पुण्यं न वेति पृष्टे सति तैर्यत्कार्यं तदभिधायिन्यौ सूत्रगाथे लिख्यते
१'जे अ दाणं पसंसंति, वहमिच्छंति पाणिणं ।
जे अणं पडिसेहंति, वित्तिच्छेयं करंति ते" ॥२०॥ 'जे अ दाणम्' इत्यादि ये केचन प्रपासत्रादिकं दानं बहूनां जन्तूनामुपकारीतिकृत्वा प्रशंसन्ति-श्लाघन्ते, ते परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण वधंप्राणातिपातमिच्छन्ति । तद्दानस्य प्राणातिपातमन्तरेणानुपपत्तेः । येऽपि च किल सूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्भावानभिज्ञाः प्रतिषेधयन्ति-निषेधयन्ति, तेऽप्यगीतार्थाः प्राणिनां वृत्तिच्छेदं-वर्तनोपायविघ्नं कुर्वन्तीति ॥२०॥
तदेवंराज्ञा अन्येन वेश्वरेण कूपतडागयागसत्रदानाद्युद्यतेन पुण्यसद्भावं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तदर्शयितुमाह
२'दुहओ वि ते ण भासंति, अत्थि वा नत्थि वा पुणो।
आयं रयस्स हेच्चा णं, निव्वाणं पाउणंति ते" ॥२१॥ 'दुहओ वि' इत्यादि यद्यस्ति पुण्यमित्येवमूचुः ततोऽनन्तानां सत्त्वानां सूक्ष्माणां बादराणां सर्वदा प्राणत्याग एव स्यात् । प्रीणनमात्रं तु पुनः स्वल्पानां स्वल्पकालीयमतोऽस्तीति न वक्तव्यम् । नास्ति पुण्यमित्येवं प्रतिषेधेऽपि तदर्थिनामन्तरायाः स्यादित्यतो द्विधाप्यस्ति नास्ति वा पुण्यमित्येवं ते मुमुक्षवः साधवः पुनर्न भाषन्ते, किं तु पृष्टैः सद्भिर्मोनं समाश्रयणीयम् । निर्बन्धे त्वस्माकं द्विचत्वारिंशद्दोषवर्जित आहारः कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति, उक्तं च
"सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं,
तेनोदासीनभावं व्रजति मुनिगणः कूपव्रप्रादिकार्ये' ॥१[] तदेवमुभयथापि भाषिते रजसः-कर्मण आयो लाभो भवति अतस्तमायं रजसो मौनेनानवद्यभाषणेन वा हित्वा-त्यक्त्वा तेऽनवद्यभाषिणो निर्वाणं-मोक्षं प्राप्नुवन्ति ॥२१॥ इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धैकादशमोक्षमार्गाध्ययने २७१ प्रतौ १२४ पत्रे ॥१२॥
१. सूय. श्रु.१/अ.११/५१६ गा. । २. सूय. श्रु.१/अ.११/५१७ गा.।
D:\ratan.pm5\5th proof