________________
२०]
[श्रीविचाररत्नाकरः आदानीया आश्रयणीया पुरुषादानीया महतोऽपि महीयांसो भवन्ति, यदि वा आदानीयो हितैषिणां मोक्षस्तन्मार्गो वा सम्यग्दर्शनादिकः पुरुषाणां मनुष्याणामादानीयः, स विद्यते येषामिति विगृह्य मत्त्वर्थीयोऽर्शादिभ्योऽजिति । तथा ये एवम्भूतास्ते विशेषेणेरयन्त्यष्टप्रकारं कर्मेति वरास्तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेणोत्प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो जीवितमसंयमजीवितं प्राणधारणं वा नाभिकान्ति नाभिलषन्ति ।इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमधर्माध्ययनप्रान्ते २७२ प्रतौ १११ पत्रे ॥१०॥
अथ केचिदनध्यक्षमिति पृथिव्यादिजीवत्वं प्रति विप्रतिपद्यन्ते वदन्ति च नास्माकमागमः प्रमाणं, केवलं युक्तिप्रिया हि वयम् । ततस्तान् प्रति युक्तिसन्दर्भित आगमो लिख्यते-यथा
१'सव्वाहि अणुजुतीहिं, मइमं पडिलेहिआ।
सव्वे अक्कंतदुक्खा य, अतो सव्वे न हिंसया" ॥९॥ 'सव्वाहिं'ति सर्वा याः काश्चनाऽनुरूपाः पृथिव्यादिजीवसाधनत्वेऽनुकूला युक्तयः साधनानि । यदि वाऽसिद्धविरुद्धानैकान्तिकपरिहारेण पक्षधर्मत्वसपक्षसत्वविपक्षव्यावृत्तिरूपतया युक्तिसङ्गता युक्तयोऽनुयुक्तयस्ताभिरनुयुक्तिभिर्मतिमान् सदसद्विवेकी पृथिव्यादिजीवनिकायान् प्रत्युपेक्ष्य पर्यालोच्य जीवत्वेन प्रसाध्य तथा सर्वेऽपि प्राणिनोऽकान्तदुःखा दुःखद्विषः सुखलिप्सवश्च मत्वाऽतो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः स्वक्षेपेणे मा:-सात्मिका पृथिवी तदात्मनां विद्रुमलवणोपलादीनां समानजातीयाङ्करसद्भावादर्शोविकााङकुरवत् । तथा सचेतनमम्भो भूमिखननादिविष्कृतस्वभावसंभवाद्द१रवत् । तथा सात्मकं तेजस्तद्योग्याहारवृद्ध्यावृद्ध्युपलब्धेर्बालवत् । तथा सात्मको वायुः अपरप्रेरितनियततिरश्चीनगतिमत्त्वाद् गोवत् । तथा सचेतना वनस्पतयः जन्मजा मारणरोगशोकादीनां समुदितानां सद्भावात् स्त्रीवत् । तथा क्षतसो हणाहरोपादानदौहृदसद्भावसङ्कोचसायाह्नस्वापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धिः । द्वीन्द्रियादीनां तु पुनः कृम्यादीनां स्पष्टमेव चैतन्यम् । तद्वेदनाश्चोपक्रमिकाः स्वाभाविकाश्च समुपलभ्यमाना मनोवाक्कायैः कृतकारितानुमतिभिश्च नवके न भेदेन तत्पीडाकारिण उपमर्दान्निवर्तितव्यम् ।इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धैकादशमोक्षमार्गाध्ययने २७१ प्रतौ १२२ पत्रे ॥११॥
१. सूय. श्रु.१/अ.११/५०५ गा.।
D:\ratan.pm5\5th proof