________________
[१७
श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः]
सन्निधिदोषदुष्टस्य स्नातुर्वस्त्रविभूषणप्रक्षालनादिकारिणश्च दूरे संयम इत्यर्थप्रतिपादनपरा सार्था सूत्रगाथा लिख्यते१ जे धम्मलद्धं विनिहाय भुंजे, वियडेण साहट्ट य जे सिणाई।
जो धोवई लूसई य वत्थं, अथाह से नागणियस्स दूरे" ॥२२॥ ये केचन शीतलविहारिणो धर्मेण सुधिकया लब्धं धर्मलब्धमौदेशिकक्रीतकृतादिदोषरहितमित्यर्थः तदेवं भूतमप्याहारजातं निधाय व्यवस्थाप्य सन्निधिं कृत्वा भुञ्जन्ते । तथा ये विकटेन प्रासुकोदकेनापि सङ्कोच्याङ्गानि प्रासुक एव प्रदेशे देशसर्वस्नानं कुर्वन्तिा तथा यो वस्त्रं धावति प्रक्षालयति तथा लूषयति शोभार्थम् । दीर्घ सत् पाटयित्वा ह्रस्वं करोति ह्रस्वं वा सन्धाय दीर्घ कोति, एवं लूषयति । तदेवं स्वार्थं पा थ" वा यो वस्त्रं लूषयति । अथासौ 'नागणियस्स' त्ति निर्ग्रन्थभावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थकरगणधरादय आहुः इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धकुशीलपरिभाषानाम्नि सप्तमाध्ययने २७१ प्रतौ ९६ पत्रे ।५।।
परिणतपत्रफलशाकाद्यादरणे तु तत्तत्कालीनसंविग्नगीतार्थचारणैव प्रमाणं, परं सर्वथा निषिद्धत्वं तु न संभाव्यते, यतोऽत्र तात्पर्यतोऽपरिणतानामेव निषेधस्य टीकाकारव्याख्यातत्वात् । सा गाथा चेयम्२'कम्मं परिन्नाय दगंसि धीरे, विअडेण जीविज्जइ आदिमोक्खं ।
से बीअकंदाइ अभुंजमाणे, विरए सिणाणाइसु इत्थिआसु" ॥२२॥ 'कम्मं परिन्नाय' इत्यादि, धिया राजत इति धीरो बुद्धिमान् ‘दगंसि' त्ति उदकसमारम्भे सति कर्मबन्धो भवतीति परिज्ञाय किं कुर्यादित्याह-विकटेन प्रासुकोदकेन सौक्श दिना जीव्यात् प्राणधारणं कुर्यात् । चशब्दादन्येनाप्याहारेण प्रासुकेनैव प्राणवृत्तिं कुर्यात् । आदिः संसारस्तस्मान्मोक्ष आदिमोक्षः संसारविमुक्तिं यावदिति, धर्मकारणानां वादिभूतं शरीरं तद्विमुक्तिं यावत्, यावज्जीवमित्यर्थः । किं चासौ साधुर्बीजकन्दादीनभुञ्जानः । आदिग्रहणान्मूलपत्रफलादीनि गृह्यन्ते, एतान्यप्यपरिणतानि परिहरन् विरतो भवति । कु त:? इति दर्शयति-स्नानाभ्यङ्गोद्वर्त्तनादिक्रियासु निःप्रतिकर्मशरीरतयाऽन्यासु च चिकित्सादिक्रियासु न वर्त्तते, तथा स्त्रीषु च विरतः । बस्तिनिरोधग्रहणादन्येऽप्याश्रवा गृह्यन्ते । यश्चैवम्भूतः सर्वेभ्योऽप्याश्रवद्वारेभ्यो विरतो नासौ कुशीलदोषैर्युज्यते, तदयोगाच्च
१. सूय. श्रु.१/अ.७/४०१ गा. । २. सूय. श्रु.१/अ.७/४०२ गा. ।
D:\ratan.pm5\5th proof