________________
१८]
[ श्रीविचाररत्नाकरः
न संसारं बम्भ्रमीति । इति सूत्रकृताङ्गप्रथम श्रुतस्कन्धकुशीलपरिभाषानाम्नि सप्तमाध्ययने २७१ प्रतौ ९६ पत्रे ॥६॥
मुनीनामाहाराद्यर्थं गृहस्थप्रशंसनं परमापायकरणमिति जिज्ञापयिषया लिख्यते१'णिक्खम्म दीणे परभोयांमि, मुहमंगलिए उदराणुगिद्धे ।
नीवारगिद्धे व महावराहे, अदूरए एहति घातमेव" ॥२५॥
यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्त्वा निष्क्रान्तो निष्क्रम्य च परभोजने पराहारविषये दीनो दैन्यमुपगतो जिह्वेन्द्रियवशादार्त्तो बन्दिवन्मुखमाङ्गलिको भवति, मुखेन मङ्गलानि प्रशंसावाक्यानीदृशस्तादृशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति । यदुक्तम्—
"सो एसो जस्स गुणा, विअरंतनिवारिया दसदिसासु ।
इहरा कहासु सुच्चसि, पच्चक्खं अज्ज दिट्ठो सि" ॥१॥ [ ]
इत्येवमौदर्यं प्रतिगृद्धोऽध्युपपन्नः किमिव ? नीवारः शूकादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध आसक्तमना गृहीत्वा च स्वयूथं महावराहो महाकाय : शूकरः, स चाहारमात्रगृद्धोऽतिसङ्कटे प्रविष्टः सन्नदूर एव शीघ्रमेव घातं विनाशमेष्यति प्राप्स्यति । एवक्ोऽवधारणे । अवश्यं तस्य विनाश एव नापरा गतिरस्तीति । एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति । इति सूत्रकृताङ्गप्रथम श्रुतस्कन्धकशीलपरिभाषानाम्नि सप्तमाध्ययने २७१ प्रतौ ९७ पत्रे ॥७॥
साधूनां परस्परक्रिया 'अहं त्वदीयं पात्री सज्जीकरोमि, त्वं मदीयं वस्त्रं सज्जीकुरु' इत्यादिरूपा न कल्पते इत्यादिप्रतिपादनपरा गाथा लिख्यते'पाणहाउ य छत्तं च, णालीयं वालवीयणं ।
परकिरियं अन्नमन्नं च तं विज्जं परिजाणिया " ॥ १८ ॥
२०
उपानहौ काष्ठपादुके च, तथा तापादिनिवारणाय छत्रं, तथा नालिका द्यूतक्रीडाविशेषस्तथा वालैर्मयूरपिच्छैर्वा व्यजनकं, तथा परेषां सम्बन्धिनीं क्रियामन्योन्यं परस्परतोऽन्यनिष्पाद्यान्यः करोत्यपरनिष्पाद्यां चापर इति, चः समुच्चये, तदेतत् सर्वं विद्वान् पण्डितः कर्मोपादानकारणत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । इति श्रीसूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमधर्माध्ययने २७१ प्रतौ १०२ पत्रे ॥८॥
१. सूय. श्रु.१/अ. ७/४०५ गा. । २. सूय. श्रु.१ / अ. ९ / ४५४ गा.
D:\ratan.pm5\5th proof