________________
१६]
[श्रीविचाररत्नाकरः चागमः"छट्ठीसत्तमीसु णं पुढवीसु नेरड्या पहू महंताई लोहियकुंथुरूवाइं विउव्वित्ता अन्नमन्नस्स कायं समतुरंगेमाणा समतुरंगेमाणा अणुघायमाणा अणुघायमाणा चिटुंति" । [ इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धे निरयविभत्तिनामपञ्चमाध्ययनप्रथमोद्देशे २७१ प्रतौ ७७ पत्रे ॥३॥
न च परभवकृतमेव कर्मात्र भुज्यते, अत्र कृतं परत्रैव भोक्तव्यमिति निर्भीकता। नापि च अत्युग्रपापपुण्यानामिहैव फलमाप्यते" [ इदं लौकिकमेव, आगमेऽप्यस्य श्रूयमाणत्वात् । स चायम्
१'अस्सि च लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा ।
संसारमावन्न परं परं ते, बंधंति वेयंति य दुन्नियाई" ॥४॥ 'अस्सि च' इत्यादि, यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्मविपाकं ददति । एकस्मिन्नेव जन्मनि विपाकं तीव्र ददति, शताग्रशो वेति बहुषु जन्मसु । येनैव प्रकारेण तदशुभमाचरन्ति तथैवोदीर्यते तथाऽन्यथा वेति, इदमुक्तं भवति-किञ्चित्कर्म तद्भव एव विपाकं ददाति किञ्चिज्जन्मान्तरे, यथा गापु त्र्य दुःखविपाकाख्येविपाकश्रुताअतस्कन्धे कथितमिति । दीर्घकालस्थितिकं परजन्मान्तरकृतं वेद्यते, येन प्रकारेण सकृत्तथैवाऽनेकशो वा । यदि वान्येन प्रकारेण सकृत् सहस्रशो वा शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति । तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारामापन्ना अरघट्टघटीयन्त्रन्याये न संसारसागरं पर्यटन्तः परं परं प्रकृष्टं दुःखमनुभवन्ति । जन्मान्तरकृतं कर्मानुभवन्तश्चैकमार्तध्यानोपहता अपरं बन्धन्ति वेदयन्ति च, दुष्टं नीतानि दुर्नीतानि दुष्कृतानि । न हि स्वकृतस्य कर्मणो विनाशोऽस्तीति भावः । तदुक्तम्
"मा होहि रे विसन्नो, जीव तुमं विमणदुम्मणो दीणो। ण हु चिंतिएण फिट्टइ, तं दुक्खं जं पुरा रइयं ॥१॥[ ] जइ पविससि पायालं, अडविं व दरिंगुहं समुदं वा।
पुव्वकयाओ न चुक्कसि, अप्पाणं घाइसे जइ वि" ॥२॥[ ] एवं तावदोघतः कुशीलाः प्रतिपादिताः ।इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धसप्तमकुशीलाध्ययने २७१ प्रतौ ९२ पत्रे ॥४॥
१. सूय. श्रु.१/अ. ७/३८४ गा. ।
D:\ratan.pm5\5th proof