________________
श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः ]
सूत्रोपात्तेभ्योऽन्येऽपि केचनार्थाः सन्ति येन तदपेक्षया चतुर्दशपूर्वविदां षट्स्थानपतित्वमुद्धुष्यते,
बाढं विद्यन्ते यतोऽभिहितम्
"पण्णवणिज्जा भावा, अनंतभागो य अणभिलप्पाणं ।
पण्णवणिज्जाणं पुण, अनंतभागो सुयनिबद्धो ॥१॥ [ वि.भा./गा. ४८८ ] इति श्रीसूत्रकृताङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययने २७१ प्रतौ ५ पत्रे ॥१॥
अधिकरणकारि वचनं वदतः साधोर्भूयसी हानिर्भवतीति यतिजनजिज्ञापयिषया
लिख्यते
१' अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं । अट्ठे परिहाइ बहु, अहिगरणं न करेज्ज पंडिए" ॥१९॥ ‘अहिगरण’ इत्यादि, अधिकरणं कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरस्तस्यैवम्भूतस्य भिक्षोस्तथाऽधिकरणकरीं दारुणां वा भयानकां प्रसह्य प्रकटमेव वाचं ब्रुवतः सतोऽर्थो मोक्षस्तत्कारणभूतो वा संयमः स बहुः परिहीयते ध्वंसमुपयाति इदमुक्तं भवति -बहुना कालेन यदर्जितं विकृष्टेन तपसा महत्पुण्यं तत्कलहं कुर्वतः परोपघातिनीं वाचं ब्रुवतस्तत्क्षणमेव ध्वंसमुपयाति । तथा हि
"जं अज्जियं समीखल्लएहिं तवनियमबंभमईएहिं ।
[ १५
मा हु तयं छड्डेहह, कलहंता सागपत्तेहिं ॥१॥ [ जी.अ./७४ ] इत्येवं मत्वा मनागप्यधिकरणं न कुर्यात् पण्डितः सदसद्विवेकी इति सूत्रकृताङ्गाद्यश्रुतस्कन्धद्वितीयवैतालीयाध्ययने द्वितीयोद्देशकवृत्तौ २७१ प्रतौ ४२ पत्रे ॥२॥
दुःकर्मवशतो नारका अशुच्यादिविरूपमाहारमाहारयन्तीति जिज्ञासया लिख्यते२‘ते हम्ममाणा णरगे पडंति, पुन्ने दुरूवस्स महाभितावे ।
ते तत्थ चिट्टंति दुरूवभक्खी, तुट्टंति कम्मोवगया किमीहिं" ॥२०॥ ते वराका नारका हन्यमानास्ताड्यमाना नरकपालेभ्यो नष्टा अन्यस्मिन् घोरतरे नरकैकदेशे पतन्ति गच्छन्ति । किम्भूते नरके ? पूर्णेभृते,दुष्टरूपंयस्यत दुरूपम् विष्ठाऽसृग्मांसादिकमलं तस्य भृते । तथा महाभितापेऽतिसन्तापोपेते ते नारकाः स्वकर्मावबद्धास्तत्रैवम्भूते नरके दुरूपभक्षिणोऽशुच्यादिभक्षकाः प्रभूतं कालं यावत्तिष्ठन्ति । तथा कृमिभिर्नरकपालापादितैः परस्परकृतैश्च स्वकर्मोपगताः स्वकर्मढौकितास्तुद्यन्ते व्यथ्यन्त इति । तथा
१. सूय. श्रु.१/अ.२ /उ. २ - १२९ गा. । २. सूय. श्रु.१/अ. ५ /उ. १ - ३१९ गा. ।
D:\ratan.pm5\5th proof