________________
श्रीविचाररत्नाकरे प्राच्यतटे
॥ द्वितीयस्तरङ्गः॥ अनन्तचैतन्यविकासनाय, सर्वज्ञलक्ष्मीकनकासनाय । कृतान्यतीर्थोन्नतिनाशनाय, नमो नमः श्रीजिनशासनाय ॥१॥ अथ क्रमायाताः श्रसूत्रकृताङ्गवचरा लिख्यन्ते
इह हि केचिदसद्ग्रहग्रस्तहृदयाः प्रतिपदमालोक्यमानश्रीजिनप्रतिमाक्षरभीरवः सूत्रसूचितार्थसार्थसमर्थितान्यपि प्रकरणसिद्धान्तविवरणानि न स्वीकुर्वते, न च ते विदन्ति सिद्धान्तार्था एवैते । तत्र चागमो लिख्यते
१'सुत्तेण सूचियं चिय, अत्था तह सूचिया य जुत्ता य ।
तो बहुविहप्पउत्ता, एया पसिद्धा अणादीया" ॥२१॥ नियुक्तिगाथा । वृत्तिर्यथा अर्थस्य सूचनात् सूत्रं'तेन सूत्रेण के चिदर्थाः साक्षात् सूचिताः मुख्यतयोपात्तास्तथाऽपरे सूचिता अर्थापत्त्याक्षिप्ताः । साक्षादनुपादानेऽपि दध्यानयनचोदनया तदाधारानयनचोदनावदिति । एवं च कृत्वा चतुर्दशपूर्वविदः परस्परं षट्स्थानपतिता भवन्ति । तथा चोक्तम्
"अक्खरलंभेण समा, ऊणहिया होंति मतिविसेसेहिं ।
ते वि य मईविसेसा, सुयनाणम्भितरे जाण" ॥१॥[वि.भा./गा.१४३] तत्र ये साक्षादुपात्तास्तान् प्रति सर्वेऽपि तुल्याः, ये पुनः सूचितास्तदपेक्षया कश्चिदनन्तभागाधिक मर्थं वेत्त्यपरोऽस्छ ख्येयभागाधिकमन्यः स ख्येयभागाधिकं तथाऽन्यः सङख्येयास्क ख्येयानन्तगुणमिति । ते च सर्वेऽपि युक्ता युक्त्युपपन्नाः सूत्रोपात्ता एव वेदितव्याः । तथा चोक्तम्-'ते वि य मईविसे सा' [वि.भा./१४३ Jइत्यादि, ननु किं
१. सूय. सू.१/नि. २१ गा.।