________________
८]
[श्रीविचाररत्नाकरः अभव्यस्य भव्यत्वाभव्यत्वशङ्का न स्यादित्यभिप्रायो लिख्यते
१'सिया वेगे अणुगच्छंति असिया वेगे अणुगच्छंति,अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निव्विज्जे" वृत्तिर्यथा-'सिया' इत्यादि सिताः पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, ‘एगे अणुगच्छंति'त्ति, एके लघुकर्माणः सम्यक्त्वं प्रतिपादयन्तमाचार्यमनुगच्छन्त्याचार्योक्तं प्रतिपद्यन्ते। तथा, असिता वा गृहपाशविमुक्ता वैके विचिकित्सावादरहिता आचार्यमार्गमनुगच्छन्ति, तेषां च मध्ये यदि कश्चित् कङ्कटुकदेश्यः स्यात्, स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्मविवरतः प्रतिपद्येताऽपीति दर्शयितुमाह-'अणुगच्छमाणेहिं' इत्यादि आचार्योक्तं सम्यक्त्वमनगच्छद्भिर्विरतविरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननगच्छन्नप्रतिपद्यमानः कथं न निर्वेदं गच्छेद्? असदनुष्ठानस्य मिथ्यात्वादिरूपां विचिकित्सा परित्यज्याचार्योक्तं सम्यक्त्वमेव प्रतिपद्यत इत्यर्थः । यदि वा सितासितैराचार्योक्तमनुगच्छद्भिर्बुध्यमानैः सद्भिः कश्चिदज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रव्रजितोऽप्यननुगच्छन्ननवधारयन् कथं न निविद्ये त न निर्वेदं तपःसंयमयोर्गच्छेत् ? निविण्णश्चेदमपि विभावये द्यथा नाहं भव्यः स्यां न च मे संयतभावोऽप्यस्तीति, यतः स्फुटविकटमपि कथितं नावगच्छामि, एवं च निविण्णस्याचार्याः समाधिमाहुः, यथा-भो साधो ! मा विषादमवलम्बिष्ठाः, भव्यो भवान् यतो भवता सम्यक्त्वमभ्युपगतं तच्च न ग्रन्थिभेदमृते तद्भेदश्च न भव्यत्वमृतेऽभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः। किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवतावाप्तः । तदेवं दर्शनचारित्रमोहनीये भवतः क्षयोपशमं समागते दर्शनचारित्रान्यथानुपपत्तेः। यत् पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति, तज्ज्ञानावरणीयविजृम्भितम्। तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बनमित्याह इत्याचाराङ्गप्रथमश्रुतस्कन्धपञ्चमलोकसाराध्ययनपञ्चमोद्देशके २३७ प्रतौ १३६ पत्रे।८।।
केषाञ्चित् सिद्धान्ततात्पर्यानभिज्ञानामेकान्ततो दयाविडम्बना 'सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा''[ ]इत्याद्युपदेष्टा कथं भगवान् जलपुष्पजीवोपमर्दिनी प्रतिमापूजामुपदिशति ? इत्यादि वृथावावदूकानामुत्सर्गापवादाद्यनेकविचारवितानगहनश्रीजिनागमसूत्रवैचित्र्यदर्शनाय तादृशं चक्रवर्तिगन्धपेषिकापेषणादन
१. आचा. श्रु.२/अ.५/उ. ५-१७४ सू. ।
D:\ratan.pm5\5th proof