________________
श्रीविचाररत्नाकरे प्राच्यतटे प्रथमस्तरङ्गः]
[७ नास्ति यत्र जरामृत्यू न स्तः । देवानां जाऽभावः ? इति चेन्न तत्राप्युपान्त्यकाले लेश्याबलसुखवर्णप्रभुत्वहान्युपपत्तेरस्त्येव तेषामपि जरासद्भावः । उक्तं च
"देवाणं भंते ! सव्वे समवन्ना ? नो इणढे समढे, से केणद्वेणं भंते ! एवं वुच्चति? , गोयमा ! देवा दुविहा पण्णत्ता-तंजहा-पुव्वोववन्नगा य पच्छोववन्नगा य । तत्थ णं जे ते पुव्वोववन्नगा ते णं अविसुद्धवन्नयरा । जे णं पच्छोववन्नगा ते विसुद्धवन्नयरा''[ ]एवं लेश्याद्यपीति । च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा
"माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीह्रीनाशो वाससां चोपरागः ।
दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टभ्रंशो वेपथुश्चारतिश्च" ॥१॥ ] इत्याचाराङ्गप्रथमश्रुतस्कन्धतृतीयाध्ययनप्रथमोद्देशकवृत्तौ २३७ प्रतौ ९६ पत्रे ॥६॥
केचित् के वलिशरीत् सर्वथा जीवविाधना न भवतीत्यूचुः । आगमाज्ञया तु केवलिनां यावच्छैलेशीप्रतिपन्नानामपि शरीदवश्यम्भावितया जायमाना जीवविराधना न विरुध्यते । कर्मबन्धवैचित्र्यं भवतु नाम । इत्यर्थविजिज्ञापयिषया लिख्यते
१एगया गुणसमितस्स रीयतो कायफासमणुचिन्ना एगतिया पाणा सायंति 'त्ति । वृत्तिर्यथा-एकदा कदाचिद् गुणसमितस्य गुणयुक्तस्याप्रमत्तयतेः रीयमाणस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामतः सङ्कचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्याञ्चिदवस्थायां कायः शरीरं तत्संस्पर्शमनुचीर्णाः कायसङ्गमागताः सम्पातिमादयः प्राणिन एके परितापमाप्नुवन्त्येके ग्लानतामुपयान्त्येके च ध्वंसमापद्यन्ते । अपश्चिमावस्थां तुसूत्रकृदेव दर्शयति एके प्राणाः प्राणिनोऽपद्रान्ति प्राणैर्विमुच्यन्ते" । अत्र च कर्मबन्धं प्रति विचित्रता । तथाहि
शैलेश्यवस्थायां मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः । उपशान्त ११ क्षीणमोह १२ सयोगिकेवलिनां १३ स्थितिनिमित्तकषायाभावात् सामायिकः। अप्रमत्तयतेर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतोऽन्तःकोटाकोटी स्थितिरिति प्रमत्तस्य त्वनाकुट्टिकयोपेत्य प्रवृत्तस्य क्वचित् पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यत: कर्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततर इत्यादि इत्याचाराङ्गप्रथमश्रुतस्कन्धपञ्चमलोकसाध्ययनचतुर्थोद्देशकवृत्तौ २३७ प्रतौ १३२ पत्रे ॥७॥
१. आचा. श्रु.१/अ.५/उ. ४-१७१ सू. ।
D:\ratan.pm5\5th proof