________________
[श्रीविचाररत्नाकरः साधुपरिभोगाय कल्पते ।इत्याचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययन तृतीकद्देशक वृत्तौ २३७ प्रतौ २९ पत्रे ॥४॥
केचिद्वासं प्रति विप्रतिपद्यन्ते, तेन वासविधिसत्तासूचक उपस्थापनाविधिलिख्यते, कः पुनरुपस्थापने विधिरित्यत्रोच्यते
शोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिरथ पादपतितोत्थितः सूरिः सह शिष्येण महाव्रतारोपणप्रत्ययं कायोत्सर्गमुत्सा/कैकं महाव्रतमादित आरभ्य त्रिरुच्चारयेद्यावन्निशिभुक्तिविरतिरविकला त्रिरुच्चारिता पश्चादिदं त्रिरुच्चारितव्यम्-ईच्चेइयाइं पंच महव्वयाइं राइभोयणवेरमणछट्ठाइं अत्तहियट्ठयाए, उवसंपजित्ताणं विहरामि''पश्चाद्वन्दनकं दत्त्वोत्थितोऽवनताङ्गयष्टिः सन्दिशत किं भणाम'इति भणति । सूरिः प्रत्याह-वन्दित्वाऽभिधत्स्वेयेवमुक्तोऽभिवन्द्योत्थितो भणति, युष्माभिर्मम महाव्रतान्यारोपितानि'इच्छाम्यनुशिष्टम्इति । आचार्योऽपि प्रणिगदति निस्तारकपारगो भवं आचार्यगुणैर्वर्द्धस्व, वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यशिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्यं नमस्कारमावर्तयन्, च पुनरपि वन्दते । तथैव च करोति सकलक्रियानुष्ठानम् । एवं त्रिः प्रदक्षिणीकृत्य विरमति शिष्यः । शेषाः साधवश्चास्य मूनि युगपद्वासमुष्टिं विमुञ्चन्ति सुरभिपरिमलां यतिजनसुलभकेसराणि वा । पश्चात्कारित-कायोत्सर्गः सूरिरभिदधाति-गणस्तव कोटिकः, स्थानीयं कुलम्, वैराख्या शाखा, अमुकाभिधान आचार्य उपाध्यायश्च साध्व्याः प्रवर्तिनी तृतीयोद्देष्टव्या । यथासन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति । पश्चादाचाम्लं निविकृतिकं वा स्वगच्छसन्ततिसमायातं समाचरन्ति ।इत्याचाराङ्गप्रथमश्रुतस्कन्धशस्त्रपरिज्ञाध्ययनसप्तमोद्देशकान्ते "तं परिण्णाय मेहावी" इति गाथावृत्तौ २३७ प्रतौ ४७ पत्रे ॥५॥
देवानामपि जासद्भावोऽस्तीति जिज्ञासया लिख्यते
२'जरामच्चुवसोवणीए नरे सततं मूढे धम्मं नाभिजाणइत्ति । वृत्तिर्य था 'जरा' इत्यादि जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो नरः प्राणी सततमनवरतं मूढो महामोहेन मूढमतिर्धर्मं स्वर्गापवर्गमार्ग नाभिजानीते नाभिगच्छति । तत्संसारे स्थानमेव
१. आचा. श्रु.१/अ.१/उ. ७-६२ सू. वृ. । २. आचा. श्रु.१/अ.३/उ. १-१११ सू. ।
D:\ratan.pm5\5th proof