________________
श्रीविचाररत्नाकरे प्राच्यतटे प्रथमस्तरङ्गः ]
“ णत्थि य सि अंगमंगा, तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरेंति, केसिंचि य घाय पाणे" ॥९८॥
[५
पूर्वार्द्धं गतार्थम् । केषाञ्चित् पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति । केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति । तथाहि भगवत्यांदृष्टान्त उपात्तो यथा “चतु न्त ) चक्रवर्त्तिनो गन्धपेषिका यौवनवर्त्तिनी बलवत्यार्द्रामलकप्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात्ततस्तेषां पृथिवीजीवानां कश्चित् सङ्घट्टितः । कश्चित् परितापितः । कश्चिद् व्यापादितः । कश्चित् परं किल न तेन शिलापुत्रकेण स्पृष्टोऽपि " । इत्याचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयोद्देशकनिर्युक्तिगाथावृत्तौ २३७ प्रतौ २१
पत्रे ॥३॥
व्यवहारं हि केवलिनोऽपि सुतरां मन्यन्त इत्यर्थगर्भितो जलविचो लिख्यते— १‘संति पाणा उदयनिस्सिया जीवा अणेगे, इह च खलु भो अणगाराणां उदयजीवा वियाहिया'इत्येतस्य वृत्तौ - शाक्यद्वयस्तू दकाश्रितानेव द्वीन्द्रियादिजीवानिच्छन्ति नोदकमित्येतदेव दर्शयति- खलुशब्दोऽवधारणे । इहैव ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटकेऽनगाराणां साधनामुदकरूपा जीवाः । चशब्दात्तदाश्रिताश्च पूतरकच्छेदनक- लोद्दनक-भ्रमरक- मत्स्यादयो जीवा व्याख्याताः । अवधारणफलं च नान्येषामुदकरूपा जीवाः प्रतिपादिताः । यद्येवमुदकमेव जीवस्ततोऽवश्यं तत्परिभोगे सति पातकभाजः साधव इत्यत्रोच्यते - नैव त ( नैत) देवं यतो वयं त्रिविधमप्कायमाचक्ष्महे-सचित्तं मिश्रमचित्तं च । तत्र योऽचित्तोऽप्कायस्तेनोपयोगविधिः साधूनां ने ताभ्यां, कथं पुनरसौ भवत्यचित्तः ? किं स्वभावादाहोस्विच्छस्त्रसम्बन्धात् ? उभयथाऽपीति । तत्र यः स्वभावादेवाऽचित्तीभवति न बाह्यशस्त्रसम्बन्धात्तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया । यतोऽनुश्रूयते—भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलत्रसादिरहितो महाह्रदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपूर्णः स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजज्ञे, तथाऽचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति श्रुतज्ञानप्रामाण्यज्ञापनार्थं च, तथाहि
सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवाचित्तमिति व्यवहरन्ति जलं, न पुनर्निरिन्धनमेवेति । अतो यद्वाह्यशस्त्रसंपर्कात् परिणामान्तापन्नं वर्णादिभिस्तदचित्तं
१. आचा. श्रु.१ / अ.१ /उ. ३- २४/२५ सू. ।
D:\ratan.pm5\5th proof