________________
४]
[ श्रीविचाररत्नाकरः ___ अत्र च यथाक्रममङ्गोपाङ्गाद्यागमप्रकरणविचा उद्देशकादिक्रमेण लिख्यन्ते । तत्र च प्रथम्माचाराङ्गवचारास्तत्राऽपि पूर्वं ज्ञानाधिकारतया मङ्गलत्वेन जातिस्मृतिमान् कियतो भवाज्जानातीति जिज्ञासया च तत्स्वरूपं लिख्यते
१ से जं पुण जाणेज्जा सहसम्मइयाए''इत्येतस्य निर्युक्तौ"एत्थ य सहसम्मइयाए जं पयं तत्थ जाणणा होइ।
ओहीमणपज्जवनाणकेवले जाइसरणे य"।६४॥ एतद्वृत्तिश्च-अत्र च 'सहसम्मइयाए' त्ति सूत्रे यत्पदं तत्र 'जाणण' त्ति ज्ञानमुपात्तं भवति 'मन ज्ञाने' मननं मतिरितिकृत्वा, तच्च किम्भूतं ? इति दर्शयति-अवधिमनःपर्यायकेवलजातिस्मरणरूपमिति । तत्रावधिज्ञानी स्क ख्येयानस्ङ्ख्येयांश्च भवाज्जानाति । एवं मनः पर्यायज्ञान्यपि । केवलज्ञानी तु नियमतोऽनन्तान् । जातिस्मरणस्तु नियमतः सउ ख्ये यानिति । शेषं स्पष्टम् ।इत्याचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनप्रथमोद्देशकनियुक्तिगाथावृत्तौ २३७ प्रतौ १४ पत्रे ॥१॥
एकपर्याप्तकाश्रयेणारा ख्येया अपर्याप्तका भवन्तीति जिज्ञासया लिख्यते"जे बायरे विहाणा, पज्जत्ता, तत्तिया अपज्जत्ता।
सुहमा वि होंति दुविहा, अपजत्ता चेव पज्जत्ता"।७९॥ 'जे बायरे' इत्यादि यानि बादरपृथ्वीकाये विधानानि भेदाः प्रतिपादिताः, तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि। अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानाम्। यत एकपर्याप्तकाश्रयेणारङ् ख्येया अपर्याप्तका भवन्ति। सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव। किन्त्वपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्रैकोऽपर्याप्तकस्तत्र नियमादस्छ ख्येयाः पर्याप्तकाः स्युः इत्याचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयोद्देशकनियुक्तिगाथावृत्तौ २३७ प्रतौ १९ पत्रे ॥२॥
पृथिव्युपमर्दैन तज्जीवानां यादृशी वेदना भवति तज्जिज्ञासया लिख्यते"पायच्छेयणभेयण, जंघोरु तहेव अंगुवंगेसु।
जह हुंति ना दुहिया, पुढविकाए तहा जाण" ॥१७॥ 'पाय' इत्यादि यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया ना दुःखितास्तथा पृथिवीकायेऽपि वेदनां जानीहि, यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति, तथापि तच्छेदनानुरूपा वेदनास्त्येवेति दर्शयितुमाह
१. आचा . श्रु.१/अ.१/उ.१-४ सू. ।
D:\ratan.pm5\5th proof