SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे प्रथमस्तरङ्गः] [९ चित्तीभवदस्ङ्ख्यातजीवात्मकमपि लवणमजानता गृहीतं तत्स्वामिना चानुज्ञातं कारणात् स्वयं भुञ्जीत साधर्मिकेभ्यो वा दद्यात् साधुरिति सूत्रार्थी लिख्येते ____१से भिक्खू वा भिक्खुणी वा जाव समाणे सिया परो अभिहट्ट अंतो पडिग्गहतो बिडं वा लोणं उब्भियं वा लोणं परिभाएत्ता णीहट्ट दलएज्जा तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसि वा अफासुयं जाव नो पडिगाहेज्जा । से आहच्च पडिग्गाहिते सिया तं च णातिदूरगए जाणिज्जा से तमायाए तत्थ गच्छेज्जा । पुव्वामेव आलोएज्जा आउसो त्ति भइणि त्ति वा इमं ते किं जाणया दिन्नं उदाहु अजाणया दिन्नं ? सो अ भणेज्जा-णो खलु मए जाणया दिन्नं अजाणया दिन्नं, कामं खलु आउसो इयाणि निसिरामि तं भुंजह च णं परिभाएह च णं । तं परेहिं समणुण्णायं समणुसिटुं तत्तो संजयामेव भुंजेज्ज व पिएज्ज वा जं च णो संचाएति भोत्तए वा पात्तए वा साहम्मिया तत्थ वसंति संभोइया समणुण्णा अपरिहारिया अदूरगया तेसिमणुप्पदायव्वं सिया' इति । वृत्तिर्यथा-'से इत्यादि' स भिक्षुर्गृहादौ प्रविष्टस्तस्य स्यात् कदाचित् परो गृहस्थः । 'अभिहट्ट अंतो' इति अन्तः प्रविश्य पतद्गृहे काष्ठच्छब्बकादौ ग्लानाद्यर्थं खण्डादियाचने सति बिडं वा लवणं खनिविशेषोद्भवमुद्भिजं वा लवणाकराद्युत्पन्नं 'परिभाएत्ता'त्ति दातव्यं विभज्य दातव्यद्रव्यात् किञ्चिदंशं गृहीत्वेत्यर्थः, निःसृत्य दद्यात्तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्तच्च 'आहच्च'त्ति सहसा प्रतिगृहीतं भवेत्तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेत् । गत्वा च पूर्वमेव तल्लवणादिकमालोकयेद्-दर्शयेदेतच्च ब्रूयात्, अमुक इति वा, भगिनी इति वा । एतल्लवणादिकं त्वया जानता दत्तमुताजानता? एवमुक्तः सन् पर एवं वदेद्यथा-पूर्वं मया जानता दत्तं साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तमेतत्परिभोगं कुरुध्वम् । तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा । यच्च न शक्नोति भुक्तुं वा पातुं वा तत्साधर्मिके भ्यो दद्यात्तदभावे च बहुपर्यापन्नविधि प्राक्तनं विदध्यादेतत्तस्य भिक्षोः सा गा यम् ।इत्याचाराङ्गद्वितीयश्रुतस्कन्धपिण्डैषणाध्ययनदशमोद्देशके २३७ प्रतौ २०३ पत्रे ॥९॥ इह हि केचिच्चिरन्तनाज्ञानवासनातिमिरनिरुद्धान्तरदृशः परमकृपापीयूषपूरपूतान्तरश्रीजिनेवाईकजीवितां परमार्थदयामजानाना मणिबुद्ध्या ग्रहिलगृहीतोपलशकलन्यायेन स्वमनीषिकाविजृम्भितमेव श्रेयो मन्यमानाः पारगतप्रतिमापूजानिषेधादि १. आचा. श्रु.२/चू.१/अ.१/उ. १०-३९३ सू. । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy