________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३१३ खदिर-चूर्णक-सेल्लक-पाटलादिजलं च नीतरितं गालितं वा नान्यथा । शास्त्रेषु मधु-गुडशर्करा-खण्डादिस्वाद्यतया द्राक्ष-शर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौ न कल्पते, उक्तं च नागपुरीयगच्छप्रत्याख्यानभाष्ये
दक्खापाणाईयं, पाणं तह साइमं गुडाईयं ।।
पढियं सुअंमि तह वि हु , तित्तीजणगं तु नायरियं ॥ [ ना.प्र.भा.] इति श्राद्धविधौ ॥४८॥
___ वासासु सगदिणोवरि, पन्नरसदिणोवरिं च हेमंते ।
जायइ य सचित्तं से, गिम्हे मासोवरिं लोणं ॥ इति व्यवहारनिर्युक्तौ ॥४९॥
ननु इत्थं तावत् सर्वत्र भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्तेत्याह
तित्थकराइयपूअं, दट्टण णेण वावि कज्जेण ।
सुअसामाइयलंभो, होइ अभवस्स गंठिम्मि" ॥ इति विशेषावश्यके ॥५०॥ अभिप्रायस्तूभयत्रापि सुगम एव ।
___ अथ केचित् साध्वीनां पृथग्विहारमुचितं मन्यन्ते, अपरे तु गृहस्थैः सह साध्वीनां विहारमुचितं मन्यन्ते ते उभयेऽपि सिद्धान्तबाह्या ज्ञेयाः । यथा
जत्थ य गोअम ! साहू , अज्जाहिं समं पहंमि अट्ठणा।
अववाएण वि गच्छेज्जा, तत्थ गच्छंमि का मेरा ॥१॥[म.नि./मू.७७० ] इत्यत्र यद्यष्टोनैः साधुभिरपि सह साध्वीनां गमनं नानुज्ञातं तर्हि कथं गृहस्थैः सह एकाकिनीनां वा विहां कल्पते ? इति बोध्यम् । इति श्रीमहानिशीथपञ्चमाध्ययने ॥५१॥ अथायं लोकः कीदृशाकार: ? कथं च व्यवस्थित इति विचारो लिख्यते
वेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिभः।
अग्रे मुरजसङ्काशो, लोकः स्यादेवमाकृतिः ॥१०५॥ वृत्तिर्यथा-अधस्तादधोभागे वेत्रासनमधस्ताद्विस्तीर्णमुपर्युपरि सङ्कोचवत्तत्समस्तदाकारः । मध्यतो-मध्ये झल्लरीवाद्यविशेषस्तत्सदृशः । अग्रे मध्यलोकादुपरि मुरज ऊर्ध्वमधश्च सङ्कुचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्सदृशः । एवमधोमध्योद्धेषु आकारत्रययोगी लोकः । यदाहु:-"तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् , स्थालमिव तिर्यग्लोकम् ,
D:\ratan.pm5\5th proof