________________
[श्रीविचाररत्नाकरः उसभसेणे' त्ति । द्वात्रिंशत्सहस्राण्येकस्मिन् गच्छे उत्कृष्टं साधूनां परिमाणं यथा श्रीऋषभस्वामिप्रथमगणधरस्य भगवत ऋषभसेनस्य । इति श्रीबृहत्कल्पप्रथमखंडे १६५ पत्रे ॥४४॥
अथ साधूनां तरोरधो विटुत्सर्गः कर्तुं न कल्पते, इत्यक्षराणि लिख्यन्ते
सच्चित्तरुक्खमूले, उच्चारादि आचरेइ जो भिक्खू । सो आणा अणवत्थं, विराहणं अट्ठिमादीहिं ॥१॥[नि.भा./१९१७] थंडिल्ल असति अद्धाण, रोधते संब्भमे भयासण्णे ।
दुब्बलगहणगिलाणे, वोसिरणं होइ जयणाए ॥२॥[नि.भा./१९१८ ] इति निशीथभाष्ये पञ्चमोद्देशके ॥४५॥
पञ्चपळ आराध्यत्वे हेतुर्लिख्यते
भयवं! बीयपमुहासुपंचसुतिहीसु विहियं धम्माणुट्ठाणं किं फलं होइ ? गोयमा ! बहुफलं होइ, जम्हा एयासु पाएणं जीवो परभवाउयं समज्जिणए । इति श्रीमहानिशीथे ॥४६॥
अथ दिवसेऽपि प्रथमचरमचतुर्घटिकयोर्बहि: पात्रादि न स्थाप्यं, बहिर्न गन्तव्यं यतस्तदा सूक्ष्मः स्नेहकायः प्रपतति इति लिख्यते
अत्थि णं भंते ! सदा समितं सुहुमे सिणेहकाए पवडति ? हंता अस्थि । से भंते ! किं उड़े पवडति ? अहे पवडइ तिरिए पवडति ? गोयमा ! उड्डे वि पवडति अहे वि पवडति तिरिए वि पवडति । वृत्तिर्यथा-'अत्थि' इत्यादि, सदा-सर्वदा ‘समियं' ति सपरिमाणं न बादराप्कायवदपरिमितमपि, अथवा 'सदा' त्ति सर्वर्तुषु ‘समितं' ति रात्रौ दिवसस्य च पूर्वापरयोः प्रहरयोः तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमल्पत्वं चावसेयमिति । यदाह_ "पढमचरिमाउ सिसिरे, गिम्हे अद्धं तु तासि वज्जित्ता ।
पायं ठवे सिणेहाइ, रक्खणट्ठा पवेसे वा" ॥१॥ [गा.स./३२४] लेपितपात्रं बहिर्न स्थापयेत् , स्नेहादिरक्षणार्थायेति । सूक्ष्मस्नेहकाय इति-अप्कायविशेष इत्यर्थः । इति श्रीभगवतीप्रथमशतकषष्ठोद्देशके ॥४७॥
त्रिविधाहारे जलमेव कल्पते, तत्रापि फुङ्कानीरं सीकरी-कर्पूर-एला-कत्थक
D:\ratan.pm5\5th proof