________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३११ नो कप्पइ निग्गंथाण वा निग्गंथीण वा सचित्तकम्मए उवस्सए वत्थु ।[.सू./ २०] कप्पइ निग्गंथाण वा निग्गंथीण वा अचित्तकम्मए उवस्सए वत्थु [.सू./२१] इति । वृत्तिर्यथा-नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा सचित्रकर्मणि उपाश्रये वस्तुम् । कल्पते पुनरचित्रकर्मणि उपाश्रये निर्ग्रन्थानां निर्ग्रन्थीनां वा वस्तुमिति सूत्रार्थः । अथ भाष्यविस्तर:
निद्दोस सदोसे वा, सचित्तकम्मे उ आणमादीणि।
सइकरणं विकहा वा, बीअं असईए वसहीए ॥१॥ [ बृ.भा./२४२८] निर्दोषे वा सदोषे वा सचित्रकर्मणि प्रतिश्रये तिष्ठतामाज्ञादयो दोषाः ये च तादृशे वा चित्रकर्मखचिते वेश्मानि पूर्वभोगान् बुभुजिरे तेषां स्मृतिकरणम् , उपलक्षणत्वादितरेषां कौतुकमुपजायते, विकथा वा तत्र वक्ष्यमाणलक्षणा भवेत् । द्वितीयपदं चात्र वसतावसत्यां तत्रापि वसेत् ॥
अथैनामेव नियुक्तिगाथां व्याख्याति
तरुगिरिनदीसमुद्दा, भवणा वल्ली लया वियाणा य।
निद्दोस चित्तकम्मं, पुन्नकलससोत्थियादी य ॥१॥[ बृ.भा./२४२९] तरवः-सहकारादयो, गिरयो-हिमवदादयो, नद्यादयो-गङ्गासिन्धुप्रभृतयः, समुद्रालवणोदादिकाः, भवनानि-गृहाणि, वल्लयो-नागवल्ल्यादयः, लता-माधवीचम्पकलतादयः, तासां वितानं निकुरम्बं, तथा पूर्णकलश: स्वस्तिकादयश्च ये माङ्गलिकाः पदार्थाः, एतेषां रूपाणि यत्रालिखितानि तच्चित्रकर्म निर्दोषं ज्ञातव्यम् ॥ इति बृहत्कल्पप्रथमोद्दशे १६५ पत्रे ॥४३॥
अथ गच्छपरिमाणं लिख्यतेतिगमाईया गच्छा, सहस्स बतीसई उसभसेणे।
थंडिल्लं पि य पढम, वयंति सेसे वि आगाढे ॥१॥ [ बृ.भा./१६३०] त्रिकादयस्त्रिचतुःप्रभृतिपुरुषपरिमाणा गच्छा भवेयुः । किमुक्तं भवति ? एकस्मिन् गच्छे जघन्यतस्त्रयो जना भवन्ति, गच्छस्य समुदायरूपत्वात् , तस्य त्रयाणामधस्तादभावादिति । तत ऊदचं ये चतुःपञ्चप्रभृतिपुरुषसङ्ख्याका गच्छास्ते मध्यमपरिमाणतः प्रतिपत्तव्यास्तावद्यावदुत्कृष्टपरिमाणं न प्राप्नोति । किं पुनस्तत् ? इति चेदत आह–'सहस्सबत्तीसई
१. वत्थए बृ.सू. । २. दोस आणादी बृ.भा. ।
D:\ratan.pm5\5th proof