________________
[ श्रीविचाररत्नाकरः भुंजइ साहु व्व उवउत्तो, जायामायाए वा भुच्चा फासुअजलेणं मुहसुद्धि काउं नउकारसरणेण उट्ठाइ देवे वंदइ, वंदणयं दाउं संवरणं काऊण पुणो वि पोसहसालाए गंतूण सज्झायंतो चिट्ठइ । इति प्रतिक्रमणावचूर्णी ॥३९॥
अथ ये केचन पौषधे भोजनं न स्वीकुर्वते, तेषामेव पूर्वजानां वाक्यं यथा
"जो पुण आहारपोसहो देसओ पुणे पच्चक्खाणे तीरीए खमासमणदुगेण मुहपत्तिं पडिलेहिय खमासमणेण वंदिअ भणइ इच्छाकारेण संदिसह भत्तपाणं पारावेह पोरिसिं पुरिमढे चउव्विहारं एकासणं निव्वियं आयंबिलं वा जा का वि कालवेला तीए पडिलेहियनमुक्कारपुव्वगं अरत्तदुट्ठो भुंजइ । इति श्रीजिनवल्लभसरिकतपौषधविधिप्रकरणे ॥४०॥
उपाधानपौषधेऽयं विधिः, अयमिति चेद् , बालचेष्टितं त्यज्यतां पौषधत्वस्य तत्राऽपि तुल्यत्वात् ।
अथोत्सर्गतस्तावत् साधूनां यत्र चतुर्मासकस्थितास्तत्र मासद्वयं यावदुपकरणं ग्रहीतुं न कल्पतेऽपि तथा हि-अथ चतुर्मासकानन्तरं कारणमपेक्ष्य न निर्गच्छन्ति ततो मासद्वयमध्ये गृह्णीयात् , तदेव दर्शयति
गच्छे सबालवुड्ढे, असई परिहर दिवड्डमासं तु ।
पणतीसा पणवीसा, पन्नरस दसेव इक्कं च ॥१॥ [ बृ.भा./४२९३] सबालवृद्धे गच्छे वस्त्राभावे शीतं सोढुमसमर्थे सार्द्धमासं परिहर परिवर्जय, परिहत्य च तत ऊर्ध्वं गृह्णीयात् । अथ सार्द्धमासमपि परिहर्तुमशक्तस्ततः पञ्चत्रिंशतं दिनानि परिहर अथैवमपि गच्छो न संस्तरति ततः पञ्चविंशतिदिनानि, तथाऽप्यशक्तौ पञ्चदशदिनानि, तथाऽप्यशक्तौ दशदिनानि, तथाऽप्यसामर्थ्य एकमपि दिनं परिहर । इति सङ्ग्रहगाथासमासार्थः । इति श्रीबृहत्कल्पवृत्तौ तृतीयखण्डे तृतीयोद्देशके ॥४१॥
चउद्दस दस य अभिन्ने, नियमा सम्मं तु सेसए भयणा । [ बृ.भा./१३२५ ]
यस्य चतुर्दशपूर्वाणि दशपूर्वाणि अभिन्नानि परिपूर्णानि सन्ति, तस्मिन्नियमात् सम्यक्त्वम् । शेषे च किञ्चिदूनदशपूर्वधरादौ सम्यक्त्वं वा स्यान्मिथ्यात्वं वेत्यर्थः । इति बृहत्कल्पे १५ पत्रे ॥४२॥
अथ साधूनां चित्रिते उपाश्रये वस्तुं न कल्पत इत्यक्षराणि लिख्यन्ते
D:\ratan.pm5\5th proof