________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३०९ माणत्वेन दृश्यमान एव पाठबद्धो ज्ञेयः । यावत् “एवं दिवसपोसहं पि । नवरं, जाव दिवसं पज्जुवासामि त्ति भण्णइ । देवसियाइपडिक्कमणे कए पारेउं कप्पइ । रत्तिपोसहं पि एवं । नवरं मज्झन्हाओ परओ जाव दिवस्स अंतोमुहुत्तो ताव धिप्पइ तहा दिवससेसं रत्तिं पज्जुवासामि त्ति भन्नइ पोसहपारणए साहुसंभवे नियमा अतिहिसंविभागवयं फासिअ पारेयव्वं" । इति श्राद्धविधौ पर्वकृत्याधिकारे ॥३६॥
___ केचिदविदितपरमार्थाः समर्थयन्ति, श्रावकाणां दशवैकालिकादिसिद्धान्तः पठनीय एवेति । यतः समवायाले श्रावकवर्णके "उवासगदसासु णं उवासगाणं णगराइं उज्जाणाइं चेइयाइं यावत् सुअपरिग्गहा तवोवहाणाइं" ॥ [ ] अत्र 'सुअपरिग्गहा' इति शब्देन सिद्धान्ताध्ययनस्य विहित्वादिति । अत्रोच्यते-अहो द्रष्टव्यं खलु खलस्य तव कैतवकलाविलसितम् यदत्रैव 'चेइयाइं तवोवहाणाई' इति प्रदर्शनं, परमिदमपि तव तात्पर्यानवबोधसूचकमेव, यतोऽत्र श्रुतशब्देन श्रुतार्थस्य गृहीतत्वात् । यदुक्तमर्थस्यापि श्रुतत्वं स्थानाङ्गे-"दुविहे धम्मे पण्णत्ते तंजहा-सुअधम्मे चेव चरित्तधम्मे चेव । सुअधम्मे दुविहे पण्णत्ते तंजहा-सुतसुअधम्मे अ अत्थसुअधम्मे य" [ ] इति । न च वाच्यं सूत्रमर्थमुभयमपि गृह्यतामिति । राजप्रश्नीये-“लद्धढे गहियढे पुच्छियढे अहिगयढे विणिच्छियढे" | [ ] अर्थश्रवणतः १ अर्थावधारणतः २ संशये सति ३ सम्यगुत्तरश्रवणतो विमलावबोधात् ४ ऐन्दम्पर्योपलम्भात् ५ इत्यादिनाऽर्थग्रहणस्यैवोक्तत्वात् , न सूत्रस्य । निशीथसूत्राद्युक्तः स्पष्टनिषेधश्च प्रागुक्त एव ॥३७॥
ग्लानस्य प्रतिचरणे महापुण्यमित्यभिप्रायो लिख्यते
ग्लानस्य प्रतिचरणे महत्फलम् । यदागम:-"गोयमा ! जो गिलाणं पडिअर से मं दंसणेणं पडियर, जे मं दंसणेणं पडिवज्जइ सो गिलाणं पडिय आणाकरणसारंखु अरहंताणं दंसणं" ॥[ ] इत्यादि भगवत्याम् । इति श्रीश्राद्धविधौ ॥३८॥
अथ पुनरपि पौषधे भोजनाक्षराणि लिख्यन्ते
तत्थ जइ देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खिअं पारावित्ता, आवस्सिअंकरित्ता, ईरियासमिओ गंतुं ईरियावहि पडिक्कमइ, आगमणआलोअणं करेइ, चेइए वंदइ, तओ संडासयं पमज्जित्ता पाउंछणे निसीयइ, भायणं पमज्जइ, जहुच्चिए भोअणे परिवेसिए पंचमंगलमुच्चारेइ, पच्चक्खाणं सरित्ता तओ वयणं पमज्जित्ता असुरसुरं अचबचबं अवड्डमविलंबिअं अपरिसाडिं मणवयणकायगुत्तो
D:\ratan.pm5\5th proof