________________
[श्रीविचाररत्नाकरः ऊर्ध्वमथ मल्लकसमुद्गम्"। [ ] इह चाधस्तिर्यगूर्ध्वलोका रुचकापेक्षया । रुचकश्च मेरुमध्ये गोस्तनाकारचतुराकाशप्रदेशप्रमाणेऽधः, तादृश एवोर्ध्वं, एवमष्टप्रदेशः । यदाहुः
"अट्ठपएसो रुअगो, तिरियलोगस्स मज्झयारंमि ।
एस पहवो दिसाणं, एसेव भवे अणुदिसाणं" ॥१॥ [ प.स्था./९४] तत्र रुचकादध उपरि च नवयोजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनशतप्रमाणः । तिर्यग्लोकदधो नवयोजनशतोनसप्तरज्जुप्रमाणोऽधोलोकः । तत्र सप्तपृथिव्य उक्तरूपाः ॥४॥ इति योगशास्त्रचतुर्थप्रकाशे १०५ श्लोकवृत्तौ १८१ पत्रे ॥
अथ का भूमि: ? कियदधः सचित्ता ? इति विचारो लिख्यते
कठिना पृथ्वी शीतातपादिशस्त्रयोगे उपर्युङ्गलमेकं प्रासुका, अल्पकठिना त्वङ्गुलचतुष्कं प्रासुका, अकठिनाऽङ्गुलाष्टकम् , वासोर्वी चाऽधिकाऽपि प्रासुका, चतुष्पदादिस्थाने क्षात्रस्थाने च मुण्डहस्तं प्रासुका, मलमूत्रातपोष्णांश्वादिना च यावती भाविता वह्निस्थाने च वह्निना यावती भाविता सा प्रासुका, महानगरस्थाने च हस्तमेकं प्रासुका, महानगरादिस्थानेऽपि द्वादशवर्षशून्ये मलाद्यभावात् सर्वा सचित्ता क्षीरवृक्षाधश्च यत्र जन्तूनामसञ्चारः सदा छाया तत्र मिश्रा, क्षीरवृक्षाणां मधुरत्वेनाप्यायकत्वात् , क्षीरवृष्टिवातशीतादिभिः शस्त्रत्वाच्च । अन्यत्र तु जनासञ्चारे छायाबहुले स्निग्धसजले उपरितनं रूक्षं रजो मुक्त्वा सर्वा सचित्ता, क्वापि क्वापि मिश्राऽपि, क्वापि रजोऽपि सचित्तम् , यद्यतयश्चैत्ये सालायां [च] प्रवेशे पादौ रजोहरणेन प्रमार्जयन्ति तत् क्वापि प्रदेशे सचित्तं मिश्रं वा रजो भविष्यतीति हेतोः । तथा सचित्ता वा भूमिः सचित्ताम्बुयोगे जाते कियत्कालं मिश्रा स्यात्ततो या सचित्ता सा सचित्ता, या चाचित्ता साऽचित्तैवेति । दृषत्स्वप्यमेवं यथार्ह वाच्यम् । इति श्रीमेरुतुङ्गसूरिकृतपिण्डविशुद्धिवृत्तौ ।
तथा जस्स सचित्तरुक्खस्स हत्थिपयपमाणो पिहलोखंधो तस्स सव्वओ जाव रयणिप्पमाणा ताव सचित्ता भूमी एयं आणासिद्धं ॥ इति श्रीनिशीथचूर्णौ ॥५२॥
अथ षष्ठारकादौ विषाग्निमेधैर्निर्बीजायां पृथिव्यां कृतायां पुनरप्याम्रादीनां यथोत्पत्तिर्भवति तथा लिख्यते
खारम्माई पुक्खलसंवटुंता, जहा बहू मेहा ।
इय धम्मबीयहरणा, करणा य गुरूणमुवएसा ॥१॥ व्याख्या-यथा क्षाराम्लादयः पुष्करसंवर्तादयश्च मेघा बीजहरणा बीजकरणाश्च
D:\ratan.pm5\5th proof