________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३०७ षट्जीवनिकायविराधनाहेतृत्त्वात्तस्य भूमिखननदलपाटकानयनगर्त्तापूरणेष्टकाचयनजलप्लावनवनस्पतित्रसकायविराधनामन्तरेण न हि तद्भवति । उच्यते-य आरम्भपरिग्रहप्रसक्तः कुटुम्बपरिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं माभूदिति जिनभवनादौ धनव्ययः श्रेयानेव, न च धर्मार्थं धनोपार्जनं युक्तम् । यतः
"धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी ।
प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम्" ॥ [अ.प्र./४६ ] इत्युक्तमेव, न च वापीकूपतडागादिखननवदशुभोदकं जिनभवनादिकरणम् । अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेव। षट्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव। यदाहुः
"जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥१॥ [पिं.वि./१०२] परमरहस्समिसीणं, समग्गगणिपिडगधरियसाराणं ।
परिणामिअं पमाणं, निच्छयमवलंबमाणाणं" ॥२॥ [पं.व./६०२] यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिस्तस्य माभूज्जिनिबिम्बादिविधानमपि । यदाह
"देहाइनिमित्तं पि हु , जे कायवहमि इह पयस॒ति ।
जिणपूआ कायवहंमि, तेसिमपवत्तणं मोहो" ॥ [पंचा./१८९] इत्यलं प्रसङ्गेन । इति श्रीयोगशास्त्रतृतीयप्रकाशवृत्तौ ॥३५॥
अथ केचिदनिषेवितसुविहतगीतार्थचरणाः, अनवगतपरम्परागतागमतत्त्वाः प्रलपन्ति अहोरात्रिक एव पौषधः कर्त्तव्यः, तत्सामग्र्यभावे न कर्त्तव्य एव, न तु केवलरात्रिक: केवलदैवसिको वेति । तदनुरूपा एवान्ये च–“एगराइंन हावए"[ ] इत्याद्युत्तराध्ययनोक्तवचनबलादहोरात्रिककेवलरात्रिको कर्तव्यौ, न तु केवलदेवसिक इति । ततस्तदुपकाराय श्राद्धविधिलिखितावश्यकचूाद्यागमोक्तः पौषधविधिपाठो लिख्यते
पौषधं च त्रेधा-अहोरात्र-१ दिवस-२ रात्रिपौषध-३ भेदात् । तत्रायमहोरात्रपौषधविधिः-"इह जम्मि दिणे सावओ पोसहं लेइ तंमि दिणे घरवावारं वज्जिय पोसहसालाए गहियपोसहजुग्गोवगरणो पोसहसालं साहुसमीवे वा गच्छइ । तओ अंगपडिलेहणं करिअ उच्चारपासवणथंडिले पडिलेहिय गुरुसमीवे नवकारपुव्वं ठवणायरियं
D:\ratan.pm5\5th proof