________________
३६]
[श्रीविचाररत्नाकरः "अह पुव्वं चिय केणइ, हविज्ज पूया कया सुविहएण । तं पि सविसेससोऽहं, जह जह होइ तहा तहा कुज्जा ॥१॥[चे.म.भा./१९६ ] निम्मल्लं पि न एवं, भन्नइ निम्मल्ललक्खणाभावा । भोगविणटुं दव्वं, निम्मलं बिंति गीयत्था ॥२॥[ ] इत्तो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा । वत्थाभरणाईणं, जुगलिअकुंडलिअमाईणं ॥३॥ [ ] कहमन्नह एगाए, कासाइए जिणिंदपडिमाणं ।
अट्ठसयं लूहंता, विजयाई वण्णिया समए" ॥४॥[ ] यज्जिनबिम्बारोपितं सत् विच्छायीभूतं विगन्धं जातं दृश्यमानं च नि:श्रीकं न भव्यजनमनःप्रमोदहेतुस्तन्निर्माल्यं ब्रुवन्ति स्म बहुश्रुताः । इति सङ्घाचारवृत्तौ । प्रद्युम्नसूरिकृतविचारसारप्रकरणे त्वेवमुक्तम्
"चेइयदव्वं दुविहं, पूयानिम्मल्लभेयओ इत्थ । आयाणाई दव्वं, पूयारित्थं मुणेयव्वं ॥१॥ [वि.प्र.] अक्खयफलबलिवत्थाइ, संतिअं जं पुणो दविणजायं ।
तं निम्मल्लं जायइ, जिणकम्मंमि उवओगो य" ॥२॥ [वि.प्र.] अत्र ढौकिताक्षतादेर्निर्माल्यत्वमुक्तं, परमन्यत्रागमे प्रकरणचरित्रादौ वा क्वापि न दृश्यते, वृद्धसम्प्रदायादिना क्वापि गच्छेऽपि नोपलभ्यते यत्र च ग्रामादावादानादिद्रव्यागमोपायो नास्ति तत्राक्षतबल्यादिद्रव्येणैव प्रतिमाः पूज्यमानाः सन्ति । अक्षतादेर्निर्माल्यत्वे तु तत्र प्रतिमापूजाऽपि कथं स्यात्तस्माद्भोगविनष्टस्यैव निर्माल्यत्वमुक्तम् । “भोगविणटुं दव्वं निम्मल्लं बिंति गीअत्था' [ ] इत्यागमोक्तेरपि । तत्त्वं तु केवलिगम्यम् । इति श्राद्धविधौ । एते सर्वेऽपि विचाराः श्राद्धविधौ दिनकृत्याधिकारे ॥३४॥
एतेषामादौ अभिप्रायास्तु स्पष्टतमत्वादेव नोल्लिखिता इति ।
अथ केचित् सुविहितपरम्परावन्तोऽपि गृहस्थाः सदारम्भमप्यारम्भमिव गणयन्ति परं तेऽनवबुद्धा ज्ञेयाः, यतोऽसदारम्भवतः सदारम्भस्य सुतमां विहितत्वात् । अयमेवाभिप्रायो लिख्यते
राजादेस्तु विधापियतुः प्रचुरतरभाण्डागारनगरमण्डलगोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम् । तथा जीर्णशीर्णानां चैत्यानां समारचनं, नष्टभ्रष्टानां समुद्धरणं चेति । ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुचितमिव प्रतिभासते,
D:\ratan.pm5\5th proof