________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३०५ एवं चातिचार एव स्यान्न तु भङ्गः । तपोदिनज्ञानादनु सिक्थादिमात्रगिलने तु भङ्ग एव नरकादिहेतुः, दिनसंशये कल्प्याकल्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गादिदोषः । गाढमान्ये भूतादिदोषपारवश्ये सर्पदंशाद्यसमाधौ च यदि तत्तपः कर्तुं न शक्नोति, तथाऽपि चतुर्थाकारोच्चारान्न भङ्गः । एवं सर्वनियमेष्वपि भाव्यम् । इति श्राद्धविधौ ॥२९॥
"तयणु हरिसुल्लसंतो, कयमुहकोसो जिणिंदपडिमाणं ।
___ अवणेइ रयणिवसियं, निम्मल्लं लोमहत्थेणं" ॥१॥[चे.वं.म./१९४] मुखकोशश्चाष्टपुटः प्रान्तनासानिश्वासनिरोधार्थं कार्यः । इति श्राद्धविधौ ॥३०॥
नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्य-स्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्वं भोजनम् । इति श्राद्धविधौ ॥३१॥
तथा ऋणसम्बन्धे हि प्रायः कलहानिवृत्तेर्वैरवृद्धाद्यपि प्रतीतं तस्मादृणसम्बन्धस्तद्भव एव यथा कथञ्चिन्निर्वाह्यः । अन्यत्राऽपि व्यवहारे निजस्वस्याचटने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिना । अतः सार्मिकैरेव सह मुख्यवृत्या व्यवहारो न्याय्यः । ततपावें स्थितस्य निजस्वस्य धर्मोपयोगित्वसम्भवात् । म्लेच्छादिपाश्र्वाल्लभ्ये तु यत्र कोऽपि पुण्योपयोगो न स्यात् । तस्य प्राप्त्यसम्भवे व्युत्सर्जनमेव युक्तम् । व्युत्सर्गादनु प्राप्तं तु तत्सङ्घस्यैव धर्मार्थमर्म्यम् । एवं स्वकीयं गतमपि वस्तु शस्त्रादिप्राप्त्यसम्भवे व्युत्सृज्यम् । यथा तदुत्थं पापं न लगेत् । इत्थं युक्त्याऽनन्तभवसत्कं देहगेहकुटुम्बवित्तशस्त्रादि सर्वं पापहेतु विवेकिना व्युत्सर्जनीयम् । अन्यथा तदुत्थदुरितस्यानन्तैरपि भवैरनिवृत्तेः । इति श्राद्धविधौ ॥३२॥
तथा यथा तथा शपथादिकं न विदध्यात् । विशिष्य च देवगुर्वादिविषयं तदभिहितम्
"अलिएण व सच्चेण वा, चेइयसम्मं करेइ जो मूढो ।
सो वमइ बोहिबीअं, अणंतसंसारिओ होइ"॥[ ] इति श्राद्धविधौ ॥३३॥
अथ निर्माल्यविचार:
यदि च प्राक् केनापि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत् , भव्यानां तद्दर्शनजन्यपुण्यानुबन्धिपुण्यनुबन्धस्यान्तरायप्रसङ्गात् । किं तामेव विशेषयेत् । यद्वृहद्भाष्यम्
D:\ratan.pm5\5th proof