________________
[ श्रीविचाररत्नाकरः
तच्चिन्ताकारकैः स्वद्रव्यवद्देवादिदव्येऽपि कार्या । अन्यथा बहुविलम्बे दुर्भिक्षदेशभङ्गदौःस्थ्यापातस्यापि सम्भवात्, बहूपक्रमेऽपि तदसिद्धेः, तथाऽपि च महादोषः । इति श्राद्धविधौ ॥ २६ ॥
३४]
तथा देवादिदेयं सम्यगेवार्य्यं, न तु घृष्टकूटनाणकादिना यथा कथञ्चिद्देवद्रव्योपभोगदोषापत्तेः, तथा देव-ज्ञान-साधारणसम्बन्धिगृहाट्ट-क्षेत्र - वाटिका-पाषाणेष्टका-काष्ठवंशक-वेल्लुक-मृत्सुधादिकं श्रीखण्डकेसरभोगपुष्पादिकं पिङ्गानिका - चङ्गेरी - धूपपात्रकलशवासकुम्पिकादिकं श्रीकरी - चमर - चन्द्रोदय-झल्लरी - भेर्यादि-वाद्य-साबाणसिरावक-जवनिका-कम्बल - कपाट-पट्ट-पट्टिका - कुण्डिका- कुम्भ- ओरस- कज्जलजल-प्रदीपादिकं चैत्यशालाप्रणालाद्यागतजलाद्यपि च स्वकार्ये किमपि न व्यापार्यम्, देवद्रव्यवत्तदुपभोगस्यापि दुष्टत्वात् । चमरसाबाणादीनां मलिनीभवनत्रुटनपाटनादिसम्भवे त्वधिकदोषोऽपि । इति श्राद्धविधी ||२७||
तथा अन्त्यावस्थायां पित्रादीनां यन्मान्यते तत्सावधानत्वे गुरु श्राद्धादिबहुसमक्षमेव वाच्यं । यद्भवन्निमित्तमियद्दिनमध्ये इयद् व्ययिष्यामि तदनुमोदना भवद्भिः कार्येति, तदपि सद्यः सर्व[प्रति]ज्ञातं व्ययितव्यम् । स्वनाम्ना व्यये स्तैन्यादिदोषः पुण्यस्थानेऽपि स च महर्षेरपि हीनताहेतुः । यदार्षम्
"तवतेणे वयतेणे, रूवतेणे अ जे नरे ।
आयारभावतेणे अ, कुव्वई देवकिव्विसं" ॥१॥ [ द.वै./५।२।४३ ] धर्मव्ययश्च मुख्यवृत्त्या साधारण एव क्रियते । यथा यथा विशेषविलोक्यमानं धर्मस्थानं तत्र तदुपयोगः स्यात् । सप्तक्षेत्र्यां हि यत् सीदत् क्षेत्रं स्यात्तदुपष्टम्भे भूयान् लाभो दृश्यते । इति श्राद्धविधौ ॥ २८ ॥
सर्वेष्वपि नियमेषु च सहसाऽनाभोगाद्याकारचतुष्कं चिन्त्यम्, तेनानाभोगादिनाऽनियमितबहुवस्तुग्रहणेऽपि नियमभङ्गो न स्यात्, किन्त्वतिचारमात्रम् । ज्ञात्वा त्वंशमात्रग्रहणेऽपि नियमभङ्ग एव, जातु दु:कर्मपारवश्येन ज्ञात्वाऽपि भङ्गेऽग्रतो नियमः पाल्य एव धर्मार्थिना । प्रतिपन्नपञ्चमीचतुर्दश्यादितपोदिनेऽपि तिथ्यन्तरभ्रान्त्यादिना सचित्तजलपानताम्बूलभक्षणकियद्भोजनादौ यदा तपोदिनं ज्ञातं तदनु मुखान्तः स्थमपि न गिलति, किं तु तत्त्यक्त्वा प्रासुकवारिणा मुखशुद्धिं कृत्वा तपोरीत्यैव तिष्ठति । तद्दिने च यदि भ्रान्त्या पूर्णं भुक्तस्तदा द्वितीयदिने दण्डनिमित्तं तत्तपः कार्यम्, समाप्तौ च तत्तपो वर्द्धमानं कार्यम्,
D:\ratan.pm5\5th proof